Book Title: Nandanvan Kalpataru 2009 00 SrNo 22
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
। कथात्रयी
कथा
सा. ऋजुमतिश्रीः
★
अन्तःकरणं नास्ति शिक्षकोऽपृच्छत् - भो बालकाः ! यूयं किं भगवतो ध्वनिमशृणुत ? बालका वदन्ति - न, वयं भगवतो ध्वनि नाऽशृणुम । पुनः शिक्षकोऽपृच्छत् - यूयं भगवतः स्पर्श किमकुरुत ? बालका वदन्ति - न, वयं भगवतः स्पर्श नाऽकुर्म । पुनः शिक्षकोऽपृच्छत् - यूयं भगवतो दर्शनं किमकुरुत ? बालका वदन्ति - न, वयं न भगवतो दर्शनमकुर्म । शिक्षकोऽवदत् - ततो निश्चितं भवति, यद् भगवानेव नास्ति । अथैका निपुणा बालिकाऽपृच्छत् – भो बालकाः । यूयं किं शिक्षकस्या
ऽन्तःकरणस्य ध्वनिमशृणुत ? बालका वदन्ति - न, वयं शिक्षकस्याऽन्तःकरणस्य ध्वनि नाऽशृणुम । पुनर्बालिकाऽपृच्छत् - यूयं किं शिक्षकस्याऽन्त:करणस्य स्पर्शमकुरुत ? बालका वदन्ति - न वयं शिक्षकस्याऽन्तःकरणस्य स्पर्श नाऽकुर्म । पुनर्बालिकाऽपृच्छत् - यूयं किं शिक्षकस्याऽन्तःकरणस्य दर्शनमकुरुत ? बालका वदन्ति - न, वयं शिक्षकस्याऽन्तःकरणस्य दर्शनं नाऽकुर्म । बालिकाऽवदत् - तेन कारणेन निश्चितं भवति, यत् शिक्षकस्याऽन्तःकरणमेव
नास्ति ।
*6.26...::TSMSVISISMISTISTISISTIAI
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106