SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ । कथात्रयी कथा सा. ऋजुमतिश्रीः ★ अन्तःकरणं नास्ति शिक्षकोऽपृच्छत् - भो बालकाः ! यूयं किं भगवतो ध्वनिमशृणुत ? बालका वदन्ति - न, वयं भगवतो ध्वनि नाऽशृणुम । पुनः शिक्षकोऽपृच्छत् - यूयं भगवतः स्पर्श किमकुरुत ? बालका वदन्ति - न, वयं भगवतः स्पर्श नाऽकुर्म । पुनः शिक्षकोऽपृच्छत् - यूयं भगवतो दर्शनं किमकुरुत ? बालका वदन्ति - न, वयं न भगवतो दर्शनमकुर्म । शिक्षकोऽवदत् - ततो निश्चितं भवति, यद् भगवानेव नास्ति । अथैका निपुणा बालिकाऽपृच्छत् – भो बालकाः । यूयं किं शिक्षकस्या ऽन्तःकरणस्य ध्वनिमशृणुत ? बालका वदन्ति - न, वयं शिक्षकस्याऽन्तःकरणस्य ध्वनि नाऽशृणुम । पुनर्बालिकाऽपृच्छत् - यूयं किं शिक्षकस्याऽन्त:करणस्य स्पर्शमकुरुत ? बालका वदन्ति - न वयं शिक्षकस्याऽन्तःकरणस्य स्पर्श नाऽकुर्म । पुनर्बालिकाऽपृच्छत् - यूयं किं शिक्षकस्याऽन्तःकरणस्य दर्शनमकुरुत ? बालका वदन्ति - न, वयं शिक्षकस्याऽन्तःकरणस्य दर्शनं नाऽकुर्म । बालिकाऽवदत् - तेन कारणेन निश्चितं भवति, यत् शिक्षकस्याऽन्तःकरणमेव नास्ति । *6.26...::TSMSVISISMISTISTISISTIAI Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521022
Book TitleNandanvan Kalpataru 2009 00 SrNo 22
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2009
Total Pages106
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy