SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ 3ORG कथा अयं तु मूर्योऽप्यस्ति मुनिकल्याणकीर्तिविजयः एकदा एकस्मिन् ग्रामे विवाहप्रसङ्गे जन्ययात्रा प्रवृत्ता । बहवो जना जन्याश्च तत्र सम्मिलिता आसन् । वरोऽपि चाऽश्वारूढः खड्गं धारयन् इतस्ततो निरीक्षमाण आसीत् । सहसा तस्य दृष्टिः पृष्ठतः स्थिते स्त्रीवृन्दे पतिता, तासामुपहासवचनानि श्रुत्वा स सकर्णो जातः ।। ___काचित् स्त्री अन्याभ्यः स्त्रीभ्यः कथयन्ती आसीत्, "हलाः ! दृष्टो वा भवतीभिर्वरोऽयम् ? कीदशो दृश्यते सः ?" तदाऽन्ययोक्तं, "दृष्ट एव । कोऽत्र सन्देहः ? मम तु स वृद्ध इवैव प्रतिभाति ।" अपरयाऽपि कथितम्, "आम् आम् ! मयाऽपि स प्रातरेव विलोकितः । वयसाऽवश्यं पञ्चपञ्चाशद्वर्षदेशीय: स्यात् ।" एवमेव च तेषां नर्मालापाः प्रचलन्त आसन् । किन्तु सर्वमप्येतत् श्रुत्वा सञ्जातामर्षो वरः, "हुम् ! मामपि वृद्धं कथयन्ति एताः !! एष दर्शयामि मम सामर्थ्यम् !'' इति वदन् झटिति खड्गं कोशान्निष्कास्य अश्वाच्चोत्प्लुत्य धावितः, समग्रामपि च जन्ययात्रां प्रदक्षिणीकृत्य पुनरपि स्वीयमश्वमारूढवान् । ततः स तमेव स्त्रीवृन्दं विलोकयति स्म । सर्वमप्येतद् दृष्ट्वा तासु स्त्रीष्वन्यतमा उच्चैः कथितवती, "हलाः ! अयं तु मूर्योऽप्यस्ति !!" ६६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521022
Book TitleNandanvan Kalpataru 2009 00 SrNo 22
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2009
Total Pages106
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy