Book Title: Nandanvan Kalpataru 2009 00 SrNo 22
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
जागतिः
- मुनिरत्नकीर्तिविजयः __ चैतन्यमहाप्रभु-इत्यस्याऽनेके शिष्या आसन् । रूपगोस्वामी तत्प्रमुखशिष्येष्वन्यतम आसीत् । पूर्वाश्रमे स मुस्लिमनृपतेर्नियोगमनुतिष्ठन्नासीत् । यद्यपि स उच्चैः पदे नियुक्त आसीत् तथाऽपि सेवकत्वं तु सेवकत्वमेव खलु !
कदाचित् रात्रौ प्रभूता वृष्टिः सञ्जाता । समग्रोऽपि मार्गः कर्दमितो जलपूर्णश्च जातः । एतादृशि च समय एव नृपतेः पुरुषा आगत्य - 'राजा भवन्तं स्मरति' - इत्युक्तवन्तो रूपगोस्वामिने ।
___मध्यरात्रस्य समय आसीत् । वृष्टिरजस्रधाराभिः प्रवर्तमानाऽऽसीत् । रूपगोस्वामी राज्ञः प्रमुख आधिकारिक आसीत्, अतस्तस्याऽऽनयनार्थं शिबिका प्रेषिताऽऽसीत् । शिबिकामारुह्य स गृहान्निर्गतः ।
राज्यनिर्मितान्यधिकारिजनानां गृहाणि मार्गस्योभयपाइँ विद्यमानान्यासन्। 3D सर्वत्र चाऽधिकारिजना निवसन्त आसन् । एतेष्वेकस्मिन् निवासे पतिपत्न्यौ वसतः स्म । यदा च शिबिका ततो निर्गता तदा कश्चिद् वार्तालापो रूपगोस्वामिनः कर्णगोचरो जातः ।
पतिः पत्नीमुद्दिश्य वदन्नासीत् - "अस्यां घोरायामपि रात्रौ कश्चिद् गच्छति ! को वा स्यादेतादृशि समये ?" ।
"त्रयो विकल्पा अत्र सम्भाव्यन्ते । श्वा वा स्यात्, चौरो वा स्यात्, राज्ञः किङ्करो वा स्यात्' इति पत्न्युक्तवती ।
पुरुषः स बहिरागत्य निरीक्षितवान् । गत्वा च पत्नीमकथयत् - "नाऽस्ति तत्र शुनकः, नाऽपि च चौरः । एष तु राज्ञः किङ्करः" - इति ।
वार्तालाप: समाप्तः । किन्तु वार्तालापमेनं श्रुत्वा रूपगोस्वामिनोऽन्तःकरणं बाढमाहतम् । तस्याऽऽत्मा जागृतोऽभूत् । राजमहालयं प्राप्य राज्ञः समक्षं स्वकीयं निवृत्तिपत्रं समर्पितवान् । ततश्च निर्गत्य चैतन्यमहाप्रभोः शिष्यत्वं . सोऽङ्गीकृतवान् ।
६३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106