Book Title: Nandanvan Kalpataru 2009 00 SrNo 22
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 68
________________ वचः श्रवणेन चाऽपि पथोऽस्य बोधो भवति । एवंरीत्या येषां साधूनामध्यात्ममार्गस्य बोधः सम्यक् परिपक्वश्च भवति X. 4 त एवाऽध्यात्मपुरुषा भवन्ति स्वानुयायिनश्च यथार्थं बोधयितुमर्हन्ति । ये ४ स्वयमज्ञास्तेऽन्यान् किं वा बोधयेयुः ? __ अतोऽध्यात्मपथस्य सम्यग् बोधः सत्साधूनां लक्षणतया परिगणितः । (८) सत्साधवो हि साधनापरायणा भवन्ति । ये सिद्धास्ते यथारुचि वर्तन्तां नाम, किन्तु ये न सिद्धा नाऽपि चाऽभ्यासपरायणास्ते निश्चप्रचमध्यात्मपथात् भ्रष्टा भवन्ति । अत एव साधनापरायणता साधूनामनिवार्यं लक्षणम् । भगवद्भावप्राप्त्यर्थं त्यक्तसङ्गाः साधवो यदि तदर्थमभ्यासरता न भवन्ति तदा तेषां साधुत्वमपि विफलमेव । धर्मसेवा, समाजसेवा, आश्रमसेवा - इत्यादिभिरुत्तरदायित्वैर्योऽध्यात्मसाधनाया विमुखीभवति स पतनधर्मा एवेति निश्चप्रचम् । साधनां करोतीति साधुरिति सूत्रं न कदाऽपि विस्मर्तव्यम् । भगवद्भावप्राप्तिरेव जीवनस्य परमं ध्येयमिति स्पष्टतयाऽवगम्य तदर्थं RO जीवनसमर्पणं कृत्वा निष्ठयाऽध्यात्मसाधनां यः परिशीलयति स एव सत्साधुर्नाऽन्यः । साध्य-साधनयोरविकलो बोधस्तदाचरणं चेति साधोरनिवार्य लक्षणम् । । साधुर्नामाऽध्यात्मपुरुषः । सत्साधुत्वनिर्णयार्थमितोऽपि बहूनि लक्षणान्यस्यां सूच्यां योजयितुं शक्यान्येव । किन्तु तादृशेन विस्तारेणाऽलम् । अत्र तु प्रधानलक्षणान्येव कानिचिन्निरूपितानि । कोऽपि मनुष्यः सर्वथा पूर्णो नैव भवति । तथैव साधुरपि मनुष्यत्वात् सर्वथा पूर्णो न । यत्किञ्चिद् वैकल्यं तु तस्याऽपि भवत्येव । 'यः पूर्णः सर्ववैकल्यरहितश्च भवेत् स एव साधुः' - इति यदि साधोर्लक्षणं कुर्याम तदा न कोऽपि साधुस्तद् यथार्थयितुं समर्थीभवेत् । अत: सामान्यजनवत् साधोः सकाशादपि पूर्णत्वापेक्षा न कर्तव्या । किं साधोः काचिद् व्याख्या कर्तुं शक्या ? कठिनमिदं कार्य, तथाऽपि यथामति प्रयतेमहि ५७ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106