Book Title: Nandanvan Kalpataru 2009 00 SrNo 22
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 71
________________ ७ तं दृष्ट्वा रमेश उक्तवान् - 'मम गृहिण्याः सीताया हस्ते कश्चिच्चमत्कारः | 5 प्रतिभासते ।' मोहनस्तदा केवलं स्मितमेव कृतवान् । किन्तु तस्य मुखे सन्तोषः . कृतज्ञताभावश्च विलसन्तावास्ताम् । तदनु च नित्यमेव रमेशो मोहनायाऽपि भोजनमानेतुं प्रवृत्तः । वस्तुतो न कोऽपि सम्बन्धोऽनयोर्मोहन-रमेशयोर्मध्य आसीत् तथाऽपि-मोहनो मम चिरपरिचितः कश्चिद्-इति सततं रमेशोऽनुभवति स्म । अथ रमेशः स्वकीयनिवासस्य समीप एवैकमपवरकं भाटकेन मोहनायाऽपि निश्चितवान् । नित्यमेव रमेशेन सहैव तदानीतमेव भोजनं कुर्वन् मोहनः सङ्कोचमनुभवन्नासीत् । अत एकदा तेन रमेशाय विज्ञप्तं यद् ‘भोजनस्य मासिकं किमपि शुल्कं निश्चेतव्यम्' इति । किन्त्वेतच्छ्रवणमात्रेणैव रमेशोऽत्यन्तं व्यथितो जात: कथितवांश्च - 'मोहन ! यदाऽहमस्मिन् नगरे आगतवानासीत् तदा मम कोऽपि नाऽऽसीदेवाऽत्र । किन्तु तव परिचयानन्तरमहमनुभवामि यद् यद्यप्यावां ५ भिन्नमातृको स्वस्तथाऽप्यावयोः शरीरे यद् रुधिरं वहति तदेकमेव !' - इति वदतस्तस्याऽक्षिणी बाष्पार्दै जाते । सूरतागमनानन्तरं वर्षद्वयमध्ये मोहनोऽपि परिणीतो जातः । यस्मिन् वर्षे मोहनस्य परिणयनं जातं तस्मिंश्च वर्षे रमेशस्य पत्नी पुत्रं प्रसूतवत्यासीत् । मोहनः परिणीय पुनश्च सूरतमागत्य स्वपल्यै कान्तायै रमेशस्य पत्न्याः सीतायाः परिचयं ददान उक्तवानासीत् - 'इयं मे माताऽस्ति । मम चर्मण उपानहावपि यद्यस्याः कृते कारयेयं तथाऽप्यस्या ऋणं प्रत्यर्पयितुं न शक्यमेव' इति ।। एतच्छ्रुत्वा - 'अरे ! दृष्टो रे महान् ऋणप्रत्यर्पकः ! कान्ते ! मा शृणोत्वस्यैकमपि वचनम्' - इति सीता साक्रोशमुक्तवत्यासीत् । तदनु सीता-कान्तयोर्मध्ये मैत्री तथा प्रवृद्धा यथा ते भगिन्यावेव स्याताम् । कान्ताऽप्यादिनं प्रतिकार्यं सीतायै एव परिपृच्छति स्म । भोजनेऽपि मोहनस्य का रुचिररुचिर्वेत्यपि सीतायै एव परिपृच्छय रसवतीं निष्पादयति स्म । सीताया बहिर्गमने कान्तैव तत्पुत्रं पालयति स्म, कुपितायां च सीतायां सैव तं लालयति स्माऽपि । स्वपुत्रस्येवैव सा तस्य परिपालनं कुर्वन्त्यासीत् । एतद् दृष्ट्वा सीता यदा कदाचित् सहास्यं कथयति स्माऽपि यत् - ‘कान्ते ! कदाऽहं तव पुत्रं पालयिष्यामि ?।' एतेन च कान्ता लज्जामनुभवति स्म । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106