Book Title: Nandanvan Kalpataru 2009 00 SrNo 22
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
था
ब, कलिकालस्य भरतः न (सत्यघटना)
७७७७७७७७७७७७७७७७७७७७७७७
मुनिरत्नकीर्तिविजयः सूरतनगरमागतस्य मोहनस्य त्रिंशद्वर्षाणि व्यतीतानि । तदात्वे तु स एकल एवाऽऽगत आसीत् । तत्र च स सर्वथाऽनभिज्ञ आसीत् । यद्यपि साम्प्रतमिव तदा नाऽऽसीदेतावान् वाहनव्यवहारो वा जनानां सम्मर्दो वाऽपि, तथाऽपि सौराष्ट्रवर्तिनस्तस्य नगरादवश्यमेव जनानां सङ्ख्याऽत्राऽधिकाऽऽसीत् ।
सूरतनगरे आगमनानन्तरं तस्य प्रथमः परिचयो रमेशेन सह जातः ।
यस्मिन् यन्त्रागारे मोहनो नियोगं प्राप्तवानासीत् तत्रैव रमेशोऽपि कार्य कुर्वन्नासीत् । नियोगस्य प्रथम एव दिने यदा भोजनविरामः सञ्जातस्तदा स्वस्वगृहादानीतं भोजनमाहारयितुं सर्वेऽपि कर्मकरा उपविष्टा आसन् । रमेशोऽपि भोजनायोपविष्ट आसीत् । प्रथम एव कवल तेन हस्ते गृहीतस्तावत् तस्य दृष्टिमोहनोपरि पतिता । हस्तौ पादौ च प्रक्षाल्य स एवमेव स्थित आसीत् । तत्पावें नाऽऽसीत् किमप्याहारयितुम् । तं दृष्ट्वैव सर्वमभिज्ञातवान् रमेशः । बुभुक्षितस्य व्यथां बुभुक्षित एव जानाति किल !
तदभिधानमजानता रमेशेन-भो ! भ्रातः । अत्राऽऽगच्छतु नाम - इत्याकारितः सः ।
मामेवैष आह्वयतीति विज्ञाय मोहनस्तत्समक्षमुपस्थितः । रमेशस्तमिङ्गितेनैव निर्दिष्टवान् यदुपविशतु नाम मया सह भोक्तुम् । सङ्कोचमनुभवन् स व्याज दर्शितवान् - नैव, धन्यवादः, किन्त्वहमुपोषितोऽस्मि-इति । रमेशोऽप्युदरपूरं प्राप्तुमेव सूरतमागत आसीत् । स्वाभिमानिनो जनस्य पीडां स संवेदयति स्मैव । . अतो बलात् तद्धस्तमाकृष्याऽध उपवेशयन् स उक्तवान् – 'अरे ! रिक्तेनोदरेणोपवासो नैव क्रियते रे ! अतः प्रथमं तावदुदरं पूरयतु पश्चादुपवास: करणीयः' इति ।
मोहनः सत्यमेव बुभुक्षित आसीत् । स भोजनायोपविष्टः । भोजनं कुर्वन्तं .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106