Book Title: Nandanvan Kalpataru 2009 00 SrNo 22
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 66
________________ 5. कदाचिच्चाऽत्यन्तं विचित्रतया वर्तनं कुर्वाणा जनानां समक्षं स्वीयमुत्तमं साधुत्वं X प्रमाणीकर्तुं प्रयतन्ते । किन्त्वेतादृशोऽभिनयोऽपि साधुत्वस्य लक्षणं नाऽस्त्येव, अत . ५. एतेभ्यः सावधानीभवितव्यम् । एवं स्थिते प्रश्न उत्तिष्ठतेऽयं यद्-उत्तमानां सत्-साधूनां किं लक्षणं ? । कानि वा चिह्नानि तानवगन्तुमुपयोगीनीति । एतत्समाधानार्थं कानिचित् प्रधानानि ल लक्षणानि प्रस्तुतानि सन्त्यत्र यानि सत्पुरुषानवगमयितुमस्माकमुपयोगीनि । P) (१) साधुजनानां प्रथमं लक्षणमस्ति पारदर्शिता - अर्थात् नितान्तं सारल्यम् । 6 यादृशमन्तःकरणे भवति तादृशमेव बहिः प्रकटीभवेत् - एतदत्यन्तमावश्यकम् । मनस्यन्यद्, वचस्यन्यद्, आचरणे तु सर्वथाऽन्यदेवेत्येतत् साधुजनानां लक्षणं नाऽस्त्येव । एतत् तु प्रकटं दम्भ एव । अतो यत्रैतादृशं नाटकं - यथाभूतं तत्त्वं निढूयाऽन्यथा प्रदर्शने उत्साहः - दृश्येत तत्राऽवश्यं किमपि शङ्कास्पदं सम्भावनीयम् । (२) मानसातीतचेतनायां यस्य प्रवेशोऽधिकारश्च स्यात् स सत्साधुः । अर्थात् - अध्यात्मतत्त्वस्य येन दर्शनलेशोऽपि कृतो भवेत् स सत्साधुः । वस्तुतः साधुजनानां प्रधानमनिवार्यं च लक्षणमिदमेव । अस्मिन् सति ह्यन्यानि लक्षणानि स्वयमेव प्रादुर्भवन्ति । अनेन विना च सर्वाण्यप्यन्यानि लक्षणानि निर्नायकसैन्यमिवाऽकिञ्चित्कराणि । विद्वत्त्वं, वैराग्यं, त्यागः - इत्यादयः १) सर्वेऽपि गुणा अस्मिन् लक्षणे विद्यमाने परां काष्ठां प्रतिपद्यन्ते । मानसातीतभूमौ प्रवेशो हि सर्वथाऽऽन्तरिकी घटनाऽस्ति । अस्मादृशां सामान्यजनानामेतल्लक्षणं ज्ञातुमशक्यप्रायम् । सुज्ञजना एवैतज्ज्ञातुमर्हन्ति । अत एव साधुजनानामन्यानि लक्षणानि लक्षणीयान्यस्माभिः । (३) अस्माकं देशे जनाः प्रायः श्रद्धालवो भवन्ति । तेषां हृदये धार्मिकी भावना साधूंश्च प्रति हार्दो भक्तिभावो भवत्येव । यदि केचित् साधवः स्वस्य स्वीयमठादिकस्य वा स्वार्थं कञ्चित् साधयितुं जनानां श्रद्धादिभावनाया दुरुपयोगं कुर्युस्तदा तत् सर्वथाऽशोभनीयम् । धर्मश्रद्धामध्यात्मं च पुरस्कृत्य जनानां शोषणमपराध एव । सत्साधवो ह्येतन्नैव कुर्वन्ति । (४) सत्साधूनामिदमप्यपरं लक्षणमस्ति - धनादिपरिग्रहेऽनासक्तिः । यद्यपि साधवो निष्परिग्रहा - निष्किञ्चनाश्चैव भवन्ति । तथाऽपि समाजे वसन्तस्ते कदाचित् Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106