Book Title: Nandanvan Kalpataru 2009 00 SrNo 22
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 64
________________ अनुवाद: copio सत्साधु (संत) - निर्णयः 1 एकदा वाराणस्यां स्वीयाश्रमे माताऽऽनन्दमयी कैश्चिज्जिज्ञासुभिः सह सत्सङ्गं कुर्वाणोपविष्टाऽऽसीत् । तदैव कस्माच्चिदतिदूरात् स्थानात् समागतः कश्चिदज्ञातः सज्जनोऽपि तत्र प्रविष्टः । सोऽपि सत्सङ्गार्थं तैः सहैवोपविष्टः । स हि सर्वत्र मातुः प्रशंसां श्रुत्वाऽभिभूतोऽध्यात्माभिमुखचित्तश्च स्वभावतः, 'स्वीयाध्यात्मयात्रायां किञ्चिद् मार्गदर्शनमत्र प्राप्येत' इत्याशयाऽत्र वाराणस्यां मातुः पार्श्वे आगत आसीत् । गुर्जर भाषायां लेखक: भाणदेवः अनुवादकः मुनिकल्याणकीर्तिविजयः मातु: सत्सङ्गस्तु यथापूर्वं प्रवर्तमान आसीत् । सा हि किञ्चित् तत्त्वं वर्णयमानाऽऽसीत् । सर्वैः सहाऽयमज्ञातः सज्जनोऽपि तत् शृण्वन्नासीत् । अथाऽकस्मादेव कुतश्चिदागता काचन मक्षिका मातुर्मुखोपर्युपविष्टा । तया च सहजमेव हस्तं विधूय सा निवारिता । तत्त्ववर्णनं तु प्रवर्तितमेव । किन्तु नवागन्तुकस्य सज्जनस्यैतदुचितं न प्रतिभातम् । तन्मनस्येतद् दृष्ट्वा बहु दुःखं जातम् । स झटित्येव तत उत्थाय बहिरागतः । एतद् दृष्ट्वा केनचिदाश्रमवासिना पृष्टं - 'महोदय ! किमिति भवान् सत्सङ्गादियत्त्वरया बहिरागतवान् ? किमपि कष्टं तु नैव जातम् ?' तेनोक्तं - ‘अरे ! किं वा वदेयम् ? मम तु श्रद्धाभङ्गो जात: । ' आश्रमवासी पृष्ट्वान् - ' तादृशं किं वा जातं भोः !? ' भवता ?' Jain Education International 'माता त्वस्मादृश्येवाऽस्ति ननु !' 'अरे ! किमर्थमेवं वदति भवान् ? तथाविधं किं घटितं यदेवमुच्यते 'अस्माकं तस्याश्च मध्ये न कोऽपि भेदो मे प्रतिभाति । पश्यतु, मातुर्मुखे मक्षिकोपविष्टा, तया चाऽस्माभिरिवैव सा निवारिता स्वहस्तेन । अयं व्यवहारस्तु ५३ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106