Book Title: Nandanvan Kalpataru 2009 00 SrNo 22
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
आमन्त्रणम
Fकाव्यानुवादः
(संस्कृतभाषायाम्)
अनु. मुनिकल्याणकीर्तिविजयः २ जीवनं जीवितुं भवान् किं करोति - इति ज्ञातुं नाऽस्ति ममोत्कण्ठा,
अहं त्वेतदेव ज्ञातुमिच्छामि यत्- किं भवतो हृदयगहरे गहना काऽपि महेच्छाऽस्ति वा? तथा, तां महेच्छां सफलयितुं स्वप्नदर्शने सामर्थ्यं वर्तते वा ?
२ भवतो वयः किमस्तीति ज्ञातं न विद्यते मे स्पहा ? म किन्तु, प्रेमकृते स्वप्नसिद्ध्यर्थं साहसाय च भवान् मूर्खतामाचरितुमपि
शक्नुयाद् वा ? में अहं ज्ञातुमिच्छामि यत्, भृशं पीडितोऽपि भवान् स्वस्थः स्थातुं शक्नुयाद्
वा - तां(पीडां) गोपयितुं, न्यूनीकर्तुमपगमयितुं वा प्रयत्नानकृत्वा ? म अहं ज्ञातुमिच्छामि यत्, किं भवान् विश्वासघातस्याऽऽक्षेपं सोढुं शक्तो
वा - स्वविश्वासघातमकृत्वैव ? अहं ज्ञातुमिच्छामि यत्, सर्वत्रोद्भूयमानानामाकर्षणानां मध्येऽपि भवान् प्रत्यहं सौन्दर्यं विलोकयितुं शक्तो वा ? तस्मिन् सत्येव जीवनस्रोतः प्रवहतीति चाऽनुभवितुं शक्तो वा ?
पता
. ।
भवान् कुत्र, किं कुतो वा शिक्षितवान् - इत्यत्र नाऽहमुत्कोऽस्मि । अहं तु ज्ञातुमिच्छामि यद् बहिर्यदा सर्वमपि विनश्यति तदाऽन्तःस्थं किं तत्त्वं भवन्तमुपष्टम्भयति ? अहं त्वेतदपि ज्ञातुमिच्छामि यद् भवान् स्वेन सहैकाकी स्थातुं शक्तो वा? विरलक्षणेषु स्वस्यैव मैत्री साहचर्यं च भवते रोचते वा ?
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106