Book Title: Nandanvan Kalpataru 2009 00 SrNo 22
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 56
________________ ORD20102020ROPORDR2020202020202 'कीदृशं संशोधनं बन्धो ?' - चातकपत्नी मां पृष्टवती। मयोत्तरं प्रदत्तम् - 'श्रूयताम् । यदि मम वशे तदिदं स्यात्तर्यहं वर्तमान- ॐ र युगानुकूलं किञ्चित्परिवर्तनं विधाय भवभूतेरस्य पद्यस्य श्लोकार्धमित्थं परिवर्तयेयम् र - "तत्तस्य किमपि द्रव्यं, येन यस्य प्रयोजनम् ।" तदिदं श्रुत्वैव सर्वे तारस्वरेण सामूहिकमट्टहासमकुर्वन् । अट्टहासं श्रुत्वा G भव्येशस्य सुतः प्रवीणः सपद्येव तस्मिन् कक्षे कुतूहलवशात् समायातः । स खलु र प्रबन्धविज्ञाने स्नातकोत्तरपरीक्षामुत्तीर्य सेवावसरगवेषणपरोऽस्तीति सर्वे वयमजानीम। सर्वस्याऽऽस्माकीनस्य सुहत्संलापस्य वृत्तमस्माभिस्तस्मै सूचितम् । सोऽयं शास्त्रार्थः स्तुतिपरम्परां, चाटुकारपरम्परां चाऽधिकृत्य, एतयोविभेदं साम्यं वा प्रतिपादयितुमुपक्रान्त इति ज्ञात्वा स सुतरामानन्दितोऽभूत् । तदनु तेन यत् सूचितं तज्ज्ञात्वा तु वयं विलक्षणतरं - कञ्चिदानन्दातिरेकं प्राप्तवन्तः। स प्रोक्तवान् - "पितृव्यचरणा: ! अस्माकं प्रबन्धनविज्ञाने सफलताया ये ल पन्थान उपदिष्टाः, प्रबन्धनकौशलस्य च ये निकषा निर्धारितास्तेषु चाटुपटुत्वं यद्यपि स्पष्टतया नोपदिष्टं किन्त्विदं सुतरामतिलाभकरं, रामबाणवत् सर्वथाऽमोघं चेति सर्वे वयं प्रबन्धविद्याधीतिनो जानीमः । मया त्वेकं मार्गदर्शकं पुस्तकं सम्प्रति प्रणीयमानमस्ति यत्र सत्ताधारिणामधिकारिणां च प्रसादनस्य विविधाः प्रकाराः छ सङ्केतिताः सन्ति । येऽद्य राजनीती, प्रशासने च सफलतमा जना अवगम्यन्ते, तेषामनुभवान् साक्षात्कारविधया संगृह्य तदिदं पुस्तकमहं लिखामि ।' भव्येशपुत्रस्य प्रवीणस्य लेखनाधीनेऽस्मिन् मार्गदर्शकग्रन्थे के केऽनुभवाः, र के के निष्कर्षाश्च समावेश्येरन्नित्यस्माकं प्रबला जिज्ञासाऽभूत् । तेनाऽस्माकं जिज्ञासां ल समाधातुं यत् सूचितं तस्मात्कतिपय एव बिन्दवोऽत्रोध्रियन्ते । तेनोक्तं यद् 'अस्मिन् युगे यैर्जनै राजनीती, प्रशासनेऽन्यासु च कलासु कौशलेषु च साफल्यमधिगतं तैरिदं ल स्वीकृतं, निभृतमेव, यदद्य ये सत्ताधारिणः, कर्तुमकर्तुमन्यथाकर्तुं च समर्थास्तेषां प्रसादः साफल्यस्य सर्वप्रथमं साधनं भवति । ते स्वयमप्यनेनैव साधनेन पोतस्वरूपेण संसारसागरयात्रां सफलतया निर्वोढुं समर्था अभूवन् । कतिपये तु सार्वजनिकसभासु सत्ताधारिणोऽतिथिरूपेणाऽऽहूय माल्यार्पणैः, स्वभाषणेषु तेषां गुण-गण-वर्णनैस्तेषां प्रशंसालेखानां वृत्तपत्रादिषु प्रकाशनैरन्यैश्च प्रकारैस्तेषां परमं प्रसादमधिगम्य स्वजीवने सफलाः सञ्जाताः । कतिपयेषां दृष्टिस्तु सर्वदा तादृशानवसरान् सावधानतया प्रतीक्षते स्म यत् सत्ताधारी मुख्यातिथिः स्वभाषणे यदि विनोदगर्भ किञ्चनाऽपि कथ्यं, घटनां, Q2020202020202020202020202020202020202 ४५ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106