Book Title: Nandanvan Kalpataru 2009 00 SrNo 22
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
OPPO
edete
सभाज्यन्ते । अत्राऽपि कुलपत्यादयः स्वहितसाधनमात्रोद्देश्येन प्रवर्तन्ते, न तस्य सत्ताधारिणो वैदुष्यं, कृतित्वं वा किञ्चन तत्र कारणत्वमुपयाति । सत्तामात्रस्य तत्र कारणता नाऽन्यः कश्चन हेतुरिति स्पष्टमेवाऽत एवाऽद्य विश्वविद्यालयानां नामकरणं पाणिनि-पतञ्जल्यादिनाम्ना न क्रियतेऽपि तु राजनेतॄणां सत्ताधीशानां वा नाम्ना क्रियते खींचीविश्वविद्यालयः सखलेचाविश्वविद्यालयः इत्यादि' ।
चातकेन तु स्पष्टकथनस्याऽस्याऽतिस्पष्टता प्रमाणिता । सोऽवोचत् - 'इदं तु न केवलं स्पष्टं, सर्वथा प्रत्यक्षप्रमया प्रमाणितमपीति किमिति पौनरुक्त्येन पिष्टपेषणं क्रियते ? कुलपतयो जानन्ति यत्पूर्वं कुलपतिपदं शिक्षा - विशेषज्ञता - निकषादिपरीक्षणानन्तरं यथा प्रदीयते स्म तथा साम्प्रतं सत्तासीन - राजनैतिक दलविशेषस्य हितकारित्व-निकषोपरि परीक्षणानन्तरं, स्वकीयदलं प्रति प्रतिबद्धतादिलक्षणादीनां परीक्षणानन्तरं वा सत्ताधारिभिः प्रदीयते । अतः कुलपतिपदलिप्सवः सत्ताधारिणां प्रसादनाय किं किं चाटुकर्म कर्तुं न प्रवर्तेरन् ? पदलाभानन्तरं च तत्प्रत्युत्तरस्वरूपं कार्तज्ञ्यप्रकाशनाय किं किं न कुर्युरिति स्फुटमनुमातुं शक्यते ।'
चातकस्य पत्नी मध्य एव प्रोक्तवती - 'भवतां प्रतिपादनेन तु तदिदमेव निष्कर्षरूपेणाऽवगम्यते यदद्य सर्वं स्वार्थैकलक्ष्यपरं संजातम् । स्नेहः, आदरः, गुणज्ञता, अहैतुकी सौहार्द भावना, वैदुष्यं प्रति सम्मानः, सर्वमिदमेव पूर्वं जनानां पारस्परिकसम्बन्धान् नियमयति स्म । भवतां संलापेन तु तदिदमेव प्रतीयते यदद्य हार्दा: सम्बन्धा विलीनाः, स्वार्थसाधनमेवाऽवशिष्टम् । किं न स्मरन्ति भवन्तो भवभूतिसदृशानां कवीनामेतादृशीर्गिरः ?
“न किञ्चिदपि कुर्वाणः सौख्यैर्दुःखान्यपोहति ।
तत्तस्य किमपि द्रव्यं यो हि यस्य प्रियो जनः ।"
येन सह हार्दः स्नेहसम्बन्धो भवति, तस्मात् प्रत्युपकारस्य, कृतज्ञताप्रकाशस्य च न कदाऽप्यपेक्षा भवति ।'
तदिदं श्रुत्वा स्मेरमुखेन मया प्रतिबोधिता चातकपत्नी – 'प्रजावति ! नाऽद्य भवभूतेर्युगम् । विलीनास्तादृशाः स्नेहसम्बन्धा अद्य । ते केवलं पुस्तकस्था एव सन्ति । जानाति भवती यदेकदा मया भवभूतेर्युगस्य, अद्यतनस्य च युगस्य तुलनात्मकं विवेचनं कुर्वाणेन भवभूतेरस्मिन् पद्ये संशोधनं प्रस्तावितमभूत् । अद्य न कोऽपि निष्प्रयोजनं कञ्चिदपि स्नेहसम्बन्धं साधयति । '
Jain Education International
४४
For Private & Personal Use Only
Geneden
www.jainelibrary.org

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106