Book Title: Nandanvan Kalpataru 2009 00 SrNo 22
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 53
________________ 02020202020202020202020202020ROPORQ202 कञ्चनाऽऽकारयन्ति, राज्यपालं, सत्ताधारिणमन्यं वा कञ्चनाऽऽह्वयन्ति तदा | शासकीयजनसम्पर्क-सूचना-प्रसारादिविभागानां, दूरदर्शनस्याऽन्येषां वा प्रचारमाध्यमानां, समाचारपत्राणां च प्रतिनिधयः, वार्ताहराः, छायाचित्रकाश्च स्वकीयान् कैमरायन्त्रादीनादाय त्वरितं समुपस्थास्यन्ति, किन्तु यदि भवन्तो मूर्धन्यं कञ्चन विद्वद्वरं विश्वविद्यालयीयमाचार्य, लेखकं विज्ञानवेत्तारं वाऽतिथित्वेनाऽऽकारयन्ति, ल तत्र समाचारपत्रेषु न कोऽपि प्रक्ष्यति तं, "काकस्य कति दन्ता'' इति । सत्ताया एव सर्वोऽप्ययं चमत्कारः, अत एव सा पूज्यते, सा चिरस्थायिनी वा भवत्वचिरस्थायिनी व। सैव गुणानां जनयित्री, सैव सर्वेषां गुणानां कारणं, न केवलं निमित्तकारणमपि तु समवायिकारणं, यतोऽहि सत्तायां विलुप्तायां गुणा अपि विलीयन्ते।' तदैव भव्येशस्य पत्नी सत्तापूजाया अस्याः समर्थनं कुर्वाणा सर्वानस्मारयत् र 'किं न स्मरन्ति भवन्तस्तं समाचारपत्रीयं वृत्तान्तं यदेकस्य राजनेतुालनाय चालीसा४ स्तोत्रं व्यलख्यत अपाठ्यत च छात्रेभ्यः, अन्यस्य राज्यस्य मुख्यमन्त्रिणी काचित्तस्या ॐ मन्त्रिपरिषत्सदस्येनैकेन प्रत्यहं दुर्गारूपेण चित्रे संस्थाप्य पूज्यते स्म, तस्य नीराजनं एल क्रियते स्म ।' अन्यैरप्युक्तं 'स्मरामस्तद् वृत्तं स्पष्टमेव यतो ह्यस्य मुद्रितस्य वृत्तस्याऽऽधारे प्रसंज्ञानमादाय अथवा केनचन स्थापितेऽभियोगे तस्य राज्यस्य न्यायालयेनाऽपि कश्चन वाद एतद्विषये स्वीकृतोऽभूद् यद् देववत् काऽपि सत्तासीना ॐ स्त्री पूज्यते दुर्गारूपेण तस्याश्चित्रं वा प्रकाश्यते चेदस्माकं धार्मिकभावना आहन्यन्ते इत्यादि । समाचारपत्रेष्वेतस्य चर्चाऽभूदिति ।' मत्पत्न्यपि प्रोक्तवती - 'इदमेव तु रहस्यं सत्तापूजाया, धनपूजायाः, ल पूजितपूजायाश्च । अद्यत्वे यस्य कस्याऽपि प्रचारः प्रचारतन्त्रेण मीडियाख्येन क्रियते » स एव विष्णोरवतार इव पूजयितुमारभ्यते । बन्धुना चातकेन तदिदं तु सत्यमुक्तमासीद् र यत् प्राक्तनानां धनपर्तीनां न कश्चन नामाऽपि स्मरति, किन्तु नाऽऽसीत्तदानीं तत् - प्रचारतन्त्रं यदद्य वर्तते । अद्य प्रचारतन्त्रेण यस्य कस्याऽप्यर्बुदपतेः प्रचारः क्रियते, | स पूज्यतां याति । श्रेष्ठिवर्यस्य अम्बानीत्याख्यस्य पत्नी कस्मिन् मन्दिरे देवदर्शनं दल कृतवतीति समाचारपत्रैरद्य प्रचार्यते तस्मिन् मन्दिरेऽपरेधुरेव जनसम्मर्दो दृश्यते । चलचित्रपटनायकस्य अमिताभबच्चन इत्याख्यस्य पुत्रेण मङ्गलदोषवति जन्मपत्रे सत्यपि ऐश्वर्या राय इत्याख्ययाऽभिनेत्र्या सह विवाहश्चिकीर्षितोऽभूत्, तस्य ल दोषस्याऽपनोदनाय कस्मिन् देवालये, कस्य ज्योतिर्विदः समीपे, कस्य साधोः 5 समीपेऽमिताभो वा अभिषेको वा गत इति क्षणे क्षणे सञ्जायमानानां घटनानां G2DB0202020202020202020202020202020202 ४२ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106