Book Title: Nandanvan Kalpataru 2009 00 SrNo 22
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
QPORDR02020202020202020ROPONOPONORD1200
ममाऽपि मनसि तदिदं श्रुत्वा कश्चन विचाराघात इवाऽन्वभूयत । मया ॐ घोषितमेवाऽभूद् यत् सत्या गुणवर्णना स्तुतिर्भवति, असत्स्वपि गुणेषु गुणाख्यानं ॐ र चाटूक्तिर्भवतीति । मया तदिदमपि स्पष्टमस्मर्यत यदस्माकं राज्ये पञ्चाशद्वर्षेषु र 2 पञ्चवर्षीयनिर्वाचनानन्तरं कदाचिदेकस्य राजनैतिकदलस्य विजयो भवति स्म, तस्मै 2
च सत्ता समर्प्यते स्म, कदाचिच्चाऽपरस्मै दलाय । तदिदमपि स्पष्टं स्मृतिपथमगाद् । ल यत् शासनसत्ताधारणकाले मन्त्रिणां तत्तद्विभागाधिपतीनां कीदृशः प्रतापः, » प्रभावश्चाऽऽतङ्कश्च परिदृश्यते स्म । गतायां तु सत्तायां तेषां त एव गुणाः शशशृङ्गवद् र विलीयन्ते स्म, येषां वर्णनं चाटुकारैः कृतमभूत् । यथा खलूदिते भानौ तिमिरराशिः 2सद्य एव विलीयते, तथैव विपरिवृत्तायां सत्तायां सद्य एव, अपरस्मिन्नेव दिवसे, ते ॐ गुणा विलीयन्ते स्म । स्मराम्यहं यत्सत्ताकाले ये जनतन्त्राधिपा यैश्चाटुकारैर्वाग्मिनः र प्रवचनपटवो, भाषणकुशलाश्चेत्यभिनन्द्यन्ते स्म, ते निर्वाचने पराजयस्याऽपरस्मिन्नेव दल 2 दिने तैरेव चाटुकारैः केवलं वाचाला, वावदूकाश्च व्यपदिश्यन्ते स्म । कोऽयम-2 भूच्चमत्कारः ?
मया यदा सर्वोऽयं पूर्वानुभवः स्फुटमुपवर्णितस्तदा सर्वेष्वपि सुहृत्सु सहसैव 2. ब्रह्मज्ञानमिदमुदियाय यदस्माभिरर्थात् प्राग्भिर्भारतीयैश्चक्रनेमिक्रमेण परिवर्तमानानां 2 - वस्तूनां स्तुतिः कदाऽपि न कृताऽभूत् । चातक उदीरितवान् – ! बन्धो 'वयमजानीम ॐ यद् धनादिसम्पत्तिश्चक्रनेमिक्रमेण परिवर्तते - वेदेऽप्युक्तम् -
"अन्यमन्यमुपतिष्ठन्त रायः ।"
अतो न कदाऽप्यस्माभिर्धनपतीनां चाटुकारिता कृताऽभूत् । कथयत, यथा कि विक्रमादित्यादिसम्राजां चन्द्रगुप्तादीनां शासकानां, तेषां धनरहितानां किन्तु विद्याबुद्धि
2 सम्पन्नानां चाणक्यसदृशानां प्रेरकाणाममात्यानां गुरूणां च नामानीतिहासे सुप्रथितानि, र तथा कश्चन दिल्लीश्वरस्याऽकबरस्य काले को धनाधीशोऽभूदिति स्मरति किम् ? केवलं - चन्दनदासस्य श्रेष्ठिन एकस्य नाम स्मर्यते, तदपि न धनपतित्वेनाऽपि तु मित्रॐ वत्सलत्वेन ।'
तदैव भव्येशेन समस्तेऽपि विचारप्रवाहे एकः संशोधनप्रस्तावः समु2 पास्थाप्यत । तेन कथितं यत् ‘सत्तासीनानां यदद्य गुणगानं क्रियते तस्य कारणमपि तु ॐ विमृशत । प्रमुखं कारणं तत्राऽपि प्रचारतन्त्रस्य सम्मुखीनता। अद्य खलु प्रचारस्तस्यैव ल भवति, मीडिया इत्याख्यस्य प्रचारतन्त्रस्याऽवधानं तदैवाऽऽक्रष्टुं शक्यते यदा 2 भवतामुत्सवे कश्चन सत्ताधीशो मुख्यातिथित्वेन समाकार्यते। यदि भवन्तो मन्त्रिपदासीनं
Q2020202020202QQQ202020202020202020202
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106