Book Title: Nandanvan Kalpataru 2009 00 SrNo 22
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
SRASKAREE
* विद्यमानाऽऽसीदित्यपि जानन्त्येव भवन्तः । इयं चटुकारता चाटुकारिता वा उर्दूभाषायां 2 ॐ खुशामद अथवा चापलूसी इत्याख्यायते, हिन्द्यां भटैती, चिरौरी, ठकुरसुहाती इति, ल आंग्लभाषायां फ्लैटरी इति ।"
तदैव भव्येशेन भाषाविज्ञता प्रदर्शिता "आम्, प्रजावति, जानीमो वयम् । (ल 5 इयं परम्पराऽन्यासु भाषास्वधिकं बद्धमूला इत्यपि प्रतीयते। आंग्लभाषायां हि फ्लैटरी-2 k पदस्य पर्याया अन्येऽपि तादृशाः सन्ति येषां रसप्रवाहो हिन्दीभाषिभिरपि स्वदेशे कि स्वसमाजे चाऽऽनायितः । चाटुभाषणस्य ‘फ्लैटर'करणस्य क्रिया तत्र 'बटर अप' ॐ (butter-up) इति शब्देनाऽप्यभिधीयते यस्याऽनुवादो हिन्द्यां 'मक्खन लगाना', ॐ र मुंबई इत्यादिक्षेत्रेषु 'मसका लगाना' इत्यादिभिः पदैः क्रियते । संस्कृतीकरणमप्यस्य र 2 कतिपयैः कृतमभूत् 'नवनीतलेपनम्' इति ।
मयोक्तं यद् "अस्या अभिव्यक्तेर्मूलमियं परम्परा भवेद् यद् यदा कश्चन र महान् पुरुषः प्रसादनीयो भवेत् तदा प्रातराशं कुर्वाणाय तस्मै पुरोडाशे अर्थाद् रोटिकाया
ब्रेड (bread) इत्याख्यायाः फलके स्लाइस (slice) इत्याख्ये कश्चन चाटुकारो ॐ नवनीतं हैयङ्गवीनं वा बटर (butter) इत्याख्यं विलेपयेत्, येनाऽयं प्रसन्नो भवेत् । के ल इयमेव क्रिया 'बटर अप' करणस्य क्रिया 'मक्खन लगाना' इत्याख्या क्रिया लि 2 नवनीतलेपनरूपेण प्रथिता पद्धतिर्वा सञ्जाता स्यात् ।" सर्वमिदं निशम्य सर्वैः - सुहृद्भिस्तदिदं तु विनिश्चितं यत् प्रशस्तिगाने चाटुकारितायां च समुहदन्तरमस्ति किन्तु 15 सर्वैरिदमपि सर्वसम्मत्याऽङ्गीकृतं यदस्मिन् युगे सेयं चाटुकारितैव साम्राज्ञीवत् सर्वत्र ॐ विजृम्भते, स्तुतयः प्रशस्तयो वा वैरल्यं भजन्ति।
तदैव चायचषकाण्यादाय सर्वेषां सुहृदां गृहस्वामिन्योऽपि कक्षेऽस्मिन् प्राविशन् । अस्मभ्यं चायचषकान् प्रदाय सकौतूहलं ता अपि प्रष्टुमारभन्त "कीदृशः ॐ प्रसङ्गोऽभूदयं सुहृत्संलापस्येति । यदाऽस्माभिः सूचितं यद् “मन्त्रिमहोदयस्याऽभि
नन्दनपत्रं निर्माणाधीनं वर्तते तदुपरि च चाटुपटुत्वाक्षेपः क्रियते'', तदा ताः सपरिहासं 2 प्रोक्तवत्यो यद् "एतादृशान्याभिनन्दनानि तु सर्वदैव सम्राजां, राज्ञां शासकानां च ॐ कृते प्रस्तूयन्ते स्म । पण्डितराजोऽपि प्रोक्तवान् ‘दिल्लीश्वरो वा जगदीश्वरो वा मनोरथान् र पूरयितुं समर्थः' इति''। चातकेनैतदुपरि कथितं यत् "सर्वमिदं वयं पाठयाम एव
काव्यशास्त्रग्रन्थेषु राजप्रशस्तिप्रसङ्गे उदाहरणविधया । ध्वनिकार-मम्मटादिभिरर प्युदाहृता एवंविधा राजस्तुतयः
Q2020202020202020202020202020202020202
RCASIRABIASRADE
३९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106