Book Title: Nandanvan Kalpataru 2009 00 SrNo 22
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 48
________________ WORDQ0202020202020R0202020202020202 2 स्वागतगीतिरपि छात्राभिः प्रस्तोष्यते । साऽपि चातकेनैव प्रणीयमानाऽस्ति। सर्वमिदं विज्ञाय मया पृष्टं यद् यद्येतावत् सुमहत् कार्यजातं चिकीर्षितमस्ति र तर्हि केवलं द्वावेव लेखकौ कथं सर्वस्याऽस्य कार्यस्य सम्पादनाय पर्याप्तौ मन्येते ? एतत्कृते स्वयं प्रधानाचार्यः, कुलपतिः, अन्ये च विविधशास्त्रनिष्णाता विद्वांस उपस्थाय ॐ शिक्षामन्त्रिणोऽभिनन्दनपत्रमालिखेयुरित्यपेक्ष्यते । अतो विदुषां किञ्चन दलमिदं कार्य ल करोति चेत् साधीयः स्यात् । एतदुपरि भव्येशेन यत् सूचितं तच्छ्रुत्वा त्वहमपि 2 विनोदस्य कुतूहलस्य, लज्जाया, वैलक्ष्यस्य च भावशबलतायां निमग्नमात्मानमन्व* भवम् । स सूचितवान् यत् 'प्रथमं तु कुलपतिर्विदुषां दलमेकं कार्यस्याऽस्य कृते नियोजयितुमैच्छत् किन्तु तदानीं राज्यप्रशासनस्य शिक्षासचिवोऽप्युपस्थितोऽभूत् । ॐ तेन कथितं यत् "संस्कृतभाषायां प्रशस्तिपाठस्य, स्तुतिपरम्परायाः, स्तोत्ररचनायाः, र अभिनन्दनपत्रप्रणयनस्य च सुदीर्घ इतिहासो जागर्ति । संस्कृतविभागस्य कञ्चनैकोऽपि सुधीः सर्वमिदं कर्तुं समर्थः स्यात् । संस्कृतज्ञा अद्यत्वे सत्ताधारिणां प्रसादनस्य सर्वविधामपि सामग्री साधुसविधेऽधिकुर्वन्तीति ममाऽनुभवः । अत एव त्विदमभिनन्दनपत्रं हिन्दीभाषायाम्, आङ्गलभाषायां वा न प्रणीयते, केवलं संस्कृतेऽभिनन्दनपत्रं समर्पयिष्यते ।" शिक्षासचिवस्येमं परामर्शमधिगत्य कुलपतिना त्वरितमेव निर्णीतं यत् कश्चनाऽप्येकः संस्कृतविभागीय आचार्यः, द्वौ वा, तदिदं कार्यमनायासमेव कर्तुं क्षमिष्यते । अत एव भव्येश-चातको नियोजितावस्मिन् कार्ये ।' तदिदं विज्ञाय सर्वप्रथमं तु मम मनसे कश्चनाऽऽक्रोश उदभूत् । किमिति में शिक्षासचिवः संस्कृते प्रशस्तिपाठस्य परम्परामनुस्मरन् संस्कृतज्ञानेव सत्ताधारिणां कि जयघोषाय, अभिनन्दनाय, प्रशंसनाय च नियोजयति? अथ खलु कोऽस्ति तादृशः ॐ शिक्षकः, आचार्यो, वैज्ञानिको, लेखको वा यः सत्ताधारिणामुच्चपदासीनानां च प्रशंसायां पश्चात्पदो भवेत् ? अन्यासु भाषासु किं न वर्तते तादृश इतिहासः, तादृशं - साहित्यम्, तादृशी परम्परा? एतादृशमाक्रोशं यावदहं पूर्णतयाऽभिव्यनज्मि तत्पूर्वमेव भाषाशास्त्रिणा भव्येशेन स्वकीयं भाषाज्ञानं प्रकटितम् - "अरे, तत्तु वयं सर्वे जानीम ॐ र एव । सत्ताधारिणां, सामन्तानामुच्चपदस्थानां वा स्तुतिगानस्य परम्परा सर्वेषु 2 देशेष्वस्ति । तत्कृते सर्वास्वपि भाषासु बहवः शब्दा अपि सुविदिताः । अस्माकं संस्कृते तु सूर्याग्निप्रभृतीनामिन्द्रवरुणादिप्रभृतीनां च देवानामेव स्तुतयः, स्तोत्राणि, ल सूक्तानि वा प्रशस्तिपराणि वेदेष्वाख्यातानि किन्त्वन्यासु भाषासु तु सम्राजां, ॐ सत्ताधारिणां च प्रशस्तयो विविधैर्विधिभिर्गीयन्ते स्म । तासां कृते सर्वासु ७ GHAGRIGRADGAORGEORGADRAGOLGARIBRARGAORG Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106