Book Title: Nandanvan Kalpataru 2009 00 SrNo 22
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
चाटुचर्याचमत्काराः
ललितकथाह
GROOROPOL20ROBO202020ROKO20KOKOROLOok
देवर्षिकलानाथ शास्त्री नवक्रीतं चतुश्चक्रयानं (फोर-व्हीलर इति प्रायशोऽभिहितं काऱ्यानं) छ प्रचालयन्नहं गृहोपयोगिवस्तूनां क्रयार्थं मत्पत्नी विपणिं प्रति नीतवानभूवम् । परावर्तमानेन मया चिन्तितं, "किमिति मध्येमार्ग स्थिते भव्येशस्य गृहे क्षणद्वयाय यानादवतीर्य, सायङ्कालीनोष्णपेय(चाय)चषकस्य सकृदास्वादनं न क्रियेत? अनेन हि मम, मत्पत्याश्च क्रयकर्मणि (शॉपिंग) यः श्रमोऽभूत्तस्याऽपनोदनमपि भवेत्, मत्पत्नी भव्येशपत्नीं क्रीतानि वस्तूनि प्रदर्शयेत्, येन हि तस्या अपि कृतकृत्यताबोधः कश्चिदुदियात्'' सर्वमिदं विचिन्त्य मया कार्यानं भव्येशगृहस्याऽन्तर्नीतं किन्तु भव्येशो गृहे तिष्ठति न वेति जिज्ञासितुं, विनैव कुञ्चीकरणं (लॉकिंग), केवलं काऱ्यानस्य द्वारं पिधायाऽऽवामन्तः प्रविष्टौ । तत्र हि यद् मित्रगोष्ठीदृश्यं प्रत्यक्षीकृतं तेन द्विगुणितोत्साहावावां तूर्णमेव समनोयोगं तत्रोपस्थितैः सुहृद्भिस्तत्परिवारैश्च सह विनोदालापव्यापृता-वभवाव।
तदानीं हि भव्येशस्य गृहेऽस्मान्मित्रं कविवर्यश्चातकोऽपि सपरिवारमुपर स्थितोऽभूत् । मद्गृहान्नाऽतिदूरमेव भव्येशस्य गृहं, निकट एव च चातकस्य गृहमस्ति ।
अतः प्रायो वयं सर्वे सायंसमयविहाराय परस्परगृहानाश्रयाम एव । किन्त्वद्य * भव्येशश्चातकश्च पृथक् कक्षे स्थितौ किञ्चन लेखनकृत्यं कुर्वाणौ दृष्टौ, तत्परिवारजनाश्च लि पृष्ठस्थिते शाद्वले (लॉन इत्याख्ये) वार्तालापनिमग्ना अदृश्यन्त । किं खलु विलिख्यते
दत्तचित्तेन भव्येशेन यत्र चातकस्य सावधानः परामर्शोऽपि तेन गृह्यमाणोऽस्तीति सकुतूहलं पृष्टं मया । तदा सेयं गोपनीया सूचना समुदतरद् यदागामिनि विश्व
विद्यालयवार्षिकोत्सवेऽन्येन कार्यजातेन सहाऽस्माकं राज्यस्य नवप्रतिष्ठापितायां ॐ मन्त्रिपरिषदि शिक्षामन्त्रिपदे नियोजितस्य माननीयस्य महापुरुषस्याऽभिनन्दनमपि र करिष्यते, तदर्थं च सुचिन्तिते संस्कृतगद्ये पद्येषु चाऽपि तस्याऽभिनन्दनपत्रं भव्येशेन थप्रणीयमानमस्ति यत्र मन्त्रिप्रशस्तौ काव्यरचना कविप्रवरेण चातकेन क्रियमाणाऽस्ति
यतो हि साऽप्यभिनन्दनपत्रे मुद्रयिष्यते । मन्त्रिणः स्वागताय काचन संस्कृतनिबद्धा
Q2020202020202020202020202020202020202
३६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106