Book Title: Nandanvan Kalpataru 2009 00 SrNo 22
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
Q2020202020202020202020202020202020202
भाषास्वभिधानान्यपि विद्यन्ते यथा ग्रीकभाषायां पैनिजीरिक (Panegyric)पदेन, ॐ लेटिनभाषायां यूलोजी (Eulogy)पदेन प्रशस्तिः स्तुतिर्वाऽभिधीयते, द्वयमपीदमांग्लभाषायामपि परिगृहीतम् । तत्र प्रशस्तिः 'प्रेज़' (Praise) पदेनाऽप्यभि-धीयते ।"
शास्त्रप्रवचनस्याऽस्य मध्य एव चातकेनोदीरितम् - "अरे बन्धो ! स्तुतयः, ॐ प्रशस्तयः, स्तोत्राणि च धर्मस्याऽङ्गभूतानि भवेयुरेव सर्वासु भाषासु । तादृश्योऽवितथा, छ यथार्थाश्च प्रशंसोक्तयो गुणानुवादा इत्याख्यायन्ते । भगवतो गुणानुवादानुरणनं भक्तस्य 2. परमं कर्तव्यं भवत्येव । अत एव भक्त्यान्दोलनप्रवृत्तेरनन्तरं सर्वविधा अपि भक्ताः * स्वकीयस्याऽऽराध्यस्य स्तुतये सहस्रशः पद्यानि प्रत्यहमुच्चारयन्ति स्म । “विष्णु
सहस्रनाम''प्रभृतिषु भगवतो गुणानुस्मरणाय सहस्रशो नामानि तस्योच्चर्यन्ते स्म ।
परस्तात्तु 'स्तुतिमुक्तावली' 'लक्ष्मी-सहस्रम्' इत्यादिनामभिर्यानि सुप्रथितानि शिवस्य र लक्ष्म्या वा गुणस्मरणाय सहस्राधिकेषु पदेषु स्तात्रोणि व्यलिख्यन्त कविभिस्तेषु याः
प्रशस्तयोऽन्तर्गर्भितास्ता यथार्था अवितथाश्चैवाऽमन्यन्त, न तत्र मिथ्याप्रशंसलेशोऽपि ॐ केनचन दृष्टः । आचार्याणां महाधीशानां च स्तुतौ केवलं श्रीपदप्रयोगेन न ल तुष्यन्तश्चाटुकाराः श्री१०८, श्री१००८ इत्यादि यल्लिखन्ति स्म, तदवश्यं चाटुत्वेन परिभाषितुं शक्यते ।"
एतदुपरि मया स्पष्टीकृतं यद् "वेदादिषु तत्तद्गुणविवेचकैः सूक्तैर्याः स्तुतयो में ल विधीयन्ते स्म, भक्तैर्वा स्वाराध्यस्य ये गुणानुवादाः क्रियन्ते स्म, न तत्र कस्याऽप्याक्षेप 2 आपत्तिर्वा सम्भवति । एवंविधाः स्तुतय एव पैनिजीरिक, यूलोजी, प्रेज़-इत्यादि
पदवाच्या भवन्ति स्म, ता देवेभ्योऽपि समर्प्यन्ते स्म, परस्तात् सम्राड्भ्यो, राजभ्यः, ल सत्ताधारिभ्यश्चापि तासां समर्पणमारब्धम् । तदनु तत्र केवलं गुणानुवादो न भवति ॐ स्म, स्वार्थपूर्तये, तेषां प्रसादनाय, मिथ्यास्तुतयः, अतिशयोक्तिपूर्णं गुणवर्णनम्, र असत्स्वपि गुणेषु तेषामुद्भावकं कृत्वा स्वामिनं प्रसाद्य, स्वहितपूर्तिमात्रोद्देश्यकाः
प्रसादनप्रयासाः क्रियन्ते स्म । ते एव गर्हणीयतां भजन्ति स्म, न खलु..." मया ॐ वाक्यपूर्तिः क्रियेत तत्पूर्वमेव मत्पत्नी, या कतिपयेभ्यः क्षणेभ्यः कक्षान्तः प्रविश्याछ ऽस्माकं संलापं शृण्वन्त्यभूत्, स्पष्टीकृतवती - "मान्याः, भवन्तस्तु जानाना एव 2 स्युर्यदेतादृशाः स्वार्थपूरणोद्देश्यकाः प्रयासा गुणानुवादाश्च न खलु प्रशस्तिपदेन
व्यपदिश्यन्ते, न वा स्तुतिपदेन, ते खलु स्मर्यन्ते चाटुकारतापदेन, चाटूक्तिपदेन वा । ल सुमहदन्तरं स्तवने, प्रशंसने, अभिनन्दने वा, अपरतश्च चाटुकारतायां बन्दिवत् चाटुपटुत्वे > च । चाटुकारिताया इयं परम्परा सर्वेषु देशेषु सर्वासु भाषासु चाऽनादिकालादेव
GP20BDPOWDROPDROPOLOPOLOPO20202020202
३८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106