Book Title: Nandanvan Kalpataru 2009 00 SrNo 22
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
श्रीविनोबाजी आह-आदौ देहं प्रत्यासक्तिर्जायते, पश्चात्तत्र ये येऽनुकूला भवन्ति तान् प्रत्यासक्तिर्भवति । एवमनुकूलानां जनानामेकः समुदायो जायते, एवं शनैः शनैः
स्नेहिजनान् कौटुम्बिकजनान् समाजसभ्यान् देशवासिनश्च प्रत्यासक्तिर्जायते । तेषां । हितार्थं यत्किमपि क्रियतेऽस्माभिः । तत्र ये ये विपरीता भवन्ति, तेषामहितकरणेऽपि सन्नद्धा भवामो वयम् । एवं देहासक्तिरेवाऽनर्थानां मूलमस्ति ।
कृतघ्नस्याऽस्य देहस्याऽऽसक्तिः कथं करणीया ? देहस्याऽस्य कृते किं 3 किं न कृतम् ? अन्तिमवर्षेषु सुखेन जीवेयमिति देहसुखस्याऽऽशया प्रातःकालादारभ्य रात्रिपर्यन्तं धनार्थमितस्ततो जीवोऽटितः, स्नेहिजना विहिताः, देहे काचिदेव पीडा जाता तदा तत्क्षणमेव सर्वमपि विहाय देहस्य लालनं पालनं च कृतं, धर्मोऽपि त्यक्तः, तथाऽप्यन्तिमकाले तु स देह कृतघ्न एव भवति ।
महामहोपाध्यायश्रीविनयविजयगणिना गदितंकर्पूरादिभिरचितोऽपि लशुनो नो गाहते सौरभं नाजन्मोपकृतोऽपि हन्त पिशुनः सौजन्यमालम्बते । देहोऽप्येष तथा जहाति न नृणां स्वाभाविकी विस्रतां नाभ्यक्तोऽपि विभूषितोऽपि बहुधा पुष्टोऽपि विश्वस्यते ॥
(शान्तसुधारसकाव्यम्) ( यथा कर्पूर-चन्दन-विशिष्टसुगन्धिद्रव्यादिभिर्लशुनस्य दुर्गन्धमपाकर्तुं बहवः प्रयत्नाः क्रियन्ते तथाऽपि तेन न त्यज्यते दुर्गन्धः, आपत्तिकाले दुर्जनः सज्जनेन रक्ष्यते तथाऽपि तेन दुर्जनता न त्यज्यते, तथैव जीवेनाऽस्य देहस्य रक्षणार्थमनेके प्रयत्ना विधीयन्ते तथाऽपि स देहोऽन्ते तु भस्मैव भविष्यति । एवं कृतघ्नस्याऽस्य देहस्य कृते कथमेतादृश्युन्मत्तताऽऽचरणीया ?
बन्धो ! देहस्य रक्षणं न करणीयं, देहः संसारवर्धकः, सर्वथाऽनर्थकारणं चेति न चिन्तनीयम् । अस्य देहस्याऽपि रक्षणं संवर्धनं सम्मार्जनं चेति सर्वमप्यवश्यं करणीयं यतोऽस्य देहस्याऽऽलम्बनेनैवाऽऽत्मोत्थानं करणीयमस्ति । किन्त्वस्य रक्षणमेव जीवनस्य सारः, रक्षणे एव सदा प्रयतितव्यमिति न चिन्तनीयम् ।
आत्मोत्थानमेव लक्ष्यमस्तीति न कदाऽपि विस्मरणीयम् । यद्येतल्लक्ष्यं विस्मर्यते तहि देहे आसक्तानां मूढानां चाऽस्माकं पशूनां च मध्ये को भेदः ? पशवोऽपि देहस्य संवर्धने संरक्षणे चैव लीना भवन्ति, तथैव त्वमपि देहे एवाऽऽसक्तोऽसि ।
३४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106