Book Title: Nandanvan Kalpataru 2009 00 SrNo 22
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 42
________________ MAMIN ___ नमो नमः श्रीगुरुनेमिसूरये ॥ मुनिधर्मकीर्तिविजयः आत्मीयबन्धो ! चेतन ! धर्मलाभोऽस्तु । तव कुशलं कामये । अस्माकं विहारयात्रा ससुखं वर्तते । "आत्माऽनन्तशक्ते: स्वाम्यस्ति । स यत्किमपि कर्तुं शक्त' इति बहुशः श्रुतं पठितं चाऽपि मया । भगवतां महापुरुषाणां च जीवनदर्शनेनाऽप्येतज्ज्ञातम् । किन्तु वराका दुर्बलाश्च वयमेतद्वचनं स्वीकर्तुं न सन्नद्धा भवामस्तथाऽप्येतत्कथनं वास्तविकं सत्यं चाऽस्ति । "अनादिकालादेष संसारो विद्यमानोऽस्ति, अनन्तकालपर्यन्तं च स्थास्यति'' इति शाश्वतनियमोऽस्ति । तथाऽपि यदि जीवो देहस्याऽऽसक्ति मोहं च विहायाऽऽत्मोत्थानार्थं प्रयत्नं कुर्यात्तहि तत्तत्व्यक्तिमाश्रित्य संसारनाशो भवत्येव । यावत्यासक्तिः सेवा च देहस्य विधीयते ततोऽल्पाऽपि सेवाऽऽसक्तिश्चाऽऽत्मोन्नत्यर्थं क्रियेत जीवेन तर्हि जन्म जन्मान्तरं च सफलीभवेदेव । किन्तु हन्त ! अस्माभिर्देह एव सर्वस्वं प्रधानं चेति मत्वाऽहर्निशमात्मोत्थानमार्गमुपेक्ष्य केवलं देहस्योत्थानाय संवर्धनाय चैव प्रयत्नः क्रियते । भक्षणं स्वपनं चलनं स्नानं वस्त्रपरिधानं व्यापारकरणं च, एवं धर्मक्रियेति सर्वास्वपि क्रियासु देहस्यैव प्राधान्यं दरीदृश्यते । 'देहाय यद् रोचते तदेव करणीयं, देहस्य यत् प्रतिकूलं तन्न करणीय'मिति सङ्कल्पोऽस्त्यस्माकम् । अद्य विश्वस्मिन् विश्वे प्रतिदिनं नवीनानां बहूनामद्यतनसाधनानां प्रादुर्भावो भवति । २ कथम् ? जीवनं सरलं सुखदं च भवेत्तथा न कदाऽल्पमपि कष्टं स्यादित्येकमेव IS) कारणमस्त्यत्र । एवमेतेषां सर्वेषां साधनानां जननी देहस्याऽऽसक्तिरेवाऽस्ति । देहस्यैषाऽऽसक्तिरस्माकं सहिष्णुतां नाशयति । सा जनानसहिष्णून् पराधीनान् च करोति । वयं नितरां देहस्य पराधीनाः स्मः । तत एव देहस्याऽल्पामपि । प्रतिकूलतां सोढुं न समर्था वयम् । अद्य यदि किञ्चित्कालमेव विद्युद् गता स्यात्तर्हि Ke जना व्याकुला दुःखिनश्च भवन्ति । तेषां चित्ते व्यजनं विना धर्म कथं सहिष्यते ? २ जलोन्नयनयन्त्रं वस्त्रप्रक्षालनयन्त्रं (Washing Machine) शीतक(Refrigerater) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106