Book Title: Nandanvan Kalpataru 2009 00 SrNo 22
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
आस्वादः
farroa
चिन्तनधारा
मुनिरत्नकीर्तिविजय:
समस्या वाऽऽपत्तिर्वा जीवनस्यैवैकांशरूपा । संसारेण सह समस्याः संयुक्ता एव । पारिवारिक-सामाजिक-राजकीया -ऽऽर्थिक-शारीरिकाद्यनेकविधाभिः समस्याभिः पीडितोऽस्ति मनुष्यः । न कोऽपि सर्वथा समस्यामुक्तोऽस्ति ।
पीडा त्वस्त्येव । सर्वेऽपि तामनुभवन्त्यपि । किन्तु न पीडायाः परिमाणं समस्यायाः परिमाणेन सम्बद्धं किञ्चिदस्ति । तद्धि समस्यां प्रत्यस्माकमभिगमेन सह सम्बद्धमस्ति । उपस्थिता समस्या कीदृश्यस्तीत्यत्र प्रमाणं तां प्रति मनुष्यस्याऽभिगम एव । अभिगमोऽयं शक्तिरूपः कश्चिदस्ति येनाऽणुप्रमाणमपि सुखं पर्वतायते, पर्वतमानं च दुःखमप्यणुतुल्यं प्रतिभासते । अतो विपरीतमपि भवत्येव ।
सर्वत्र परिदृश्यतेऽपि यत् - केचित् 'केन्सर' रोगमपि स्वाभाविकतया स्वीकृत्य हसन्त एव जीवनं यापयन्ति केचिच्च सामान्यं ज्वरमपि सोढुं न पारयन्ति । केचित् प्रभूतामपि धनादीनां हानिं सधैर्यमुपेक्षन्ते उपसहन्ति च, अन्ये ह्यास्तां हानिर्हाने: सम्भावनयाऽपि विक्षिप्ता भवन्ति, कदाचिच्चाऽल्पहान्याऽऽत्मघातमपि कुर्वन्ति । केचित् परस्य सदपि स्वभाववैचित्र्यं स्वभावप्रातिकूल्यं मनुष्यसहजमिति कृत्वा स्वीकृत्य ततोऽपि सारतत्त्वमन्विष्य प्रसन्नतामनुभवन्ति; अपरे हि स्वकल्पितं वास्तवं वाऽपि परस्य स्वभाववैचित्र्यमसहमाना तं स्वकीयमसन्तोषमभिव्यञ्जन्ति ।
तुकारामस्य जीवनस्य कश्चित् प्रसङ्गोऽस्ति तस्य पत्नी कर्कशाऽऽसीत् । नित्यमेव सा तेन सह कलहं करोति स्म । किन्तु साधुत्वपूर्णहृदयः स न कदाऽपि तां प्रतिकरोति स्म । नाऽपि तां तत्स्वभावं चाऽधिकृत्य कदाऽपि कुत्राऽपि वाऽसन्तोषं प्रकटयति स्माऽपि । दारिद्यमेवाऽत्र कारणमिति स जानाति स्मैव ।
गृहीतेक्षुयष्टिः स एकदा गृहमागतः । भोजनायाऽद्य किमानीतमिति पत्न्या
Jain Education International
१६
-
For Private & Personal Use Only
carrese
wres
www.jainelibrary.org

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106