Book Title: Nandanvan Kalpataru 2009 00 SrNo 22
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 39
________________ ना तत्रैवोपविशति स्म । सङ्गीताभ्यासं श्रावं श्रावं गृहगमनानन्तरं प्रायः षण्मासाभ्यन्तर , एव स सप्तकस्य द्वादशाऽपि स्वरानवगन्तुं स्वकण्ठेन गातुं च शिक्षितवान् । ततो गच्छता कालेन स क्रमशः पञ्च रागानालापयितुमपि शिक्षितवान् । कीदृशोऽयं सङ्गीतमयवातावरणस्य प्रभावो ननु, यत् श्वाऽपि शास्त्रीयसङ्गीतं गातुं प्रभवेत् ? ततः स्वशुनकस्येदृशीं सिद्धि दृष्ट्वा मुदितेन खाँमहोदयेन पुणेसतारादिनगरेषु लोकसमक्षं तद्गानस्य कार्यक्रमा आयोजिताः । ततो मुम्बाइनगरेऽप्येकः कार्यक्रम आयोजितः । अस्मिन् कार्यक्रमे एनी बेसन्ट, सरोजिनी नायडु, जमनादास-द्वारकादासबजाजः, होर्नी-मेन्, बॉम्बे-क्रोनिकल-पत्रिकायाः सम्पादको ब्रेल्-वी, मुम्बाइसमाचारपत्रिकायाः सम्पादकः सोराबजी-कापडियाइत्यादयो महानुभावाः, क्रीडारङ्गाना(CIRCUS)मायोजकाश्चोपस्थिता आसन् । तेषां सर्वेषामपि पश्यतां टीपुना सप्तकस्य द्वादशाऽपि स्वरा यथावद् गीताः । ततश्च तेन शङ्करा, श्यामकल्याणः, मुलतानी, पुरिया-धनाश्रीः तथा पुरिया इत्येतेषां पञ्चानामपि रागानामालापा अत्यन्तं मधुरतया गीताः । एतच्छ्रुत्वा च सर्वेऽपि श्रोतारः साश्चर्यानन्दमनुभूतवन्तः । एतेन ज्ञायते यत् पशवोऽपि कथङ्कारं ग्रहणशीलाः संवेदनशालिनश्च भवन्तिइति । एवमेव पशु-पक्षिणामन्येऽपि केचित् प्रसङ्गाः सन्ति यत्र तैः स्वसंवेदनानि सुतरां प्रकटीकृतानि सन्ति । तान् प्रसङ्गान् ह्यागामिन्यां शाखायां वर्णयिष्यामः । [सौजन्यं - भारतीयविद्याभवनप्रकाशिता नवनीत-समर्पण-इति गूर्जरमासपत्रिका] २८ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106