Book Title: Nandanvan Kalpataru 2009 00 SrNo 22
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
।
सर्वेऽप्येते प्रसङ्गा ज्ञापयन्ति यद् - मनुष्यवत् पशु-पक्षिणामपि मानसं परिसरप्रभावाधीनमेव । किन्त्वेते सर्वेऽपि दृष्टान्ताः शास्त्रीया दन्तकथारूपा वा । अतो जनानां सर्वेषामपि कदाचिदत्र प्रत्ययो नाऽपि भवेत् । अतोऽत्रैदंयुगीनः प्रसङ्गोऽपि प्रस्तूयते ।
शास्त्रीयसङ्गीतेऽभिरुचिवतां खाँ साहेब-अब्दुलकरीम खाँ-महोदयस्य नाम ज्ञातचरमेव स्यात् । (जयन्तिलाल-झरीवाला-इत्यनेन तु तज्जीवनविषयकं - "Abdul Karim - The Man of the times" इति पुस्तकमपि लिखितमस्ति ।)
स हि विश्रुतायाः किराणा-परम्पराया(घराना) गायक आसीत् । शास्त्रीयसङ्गीतेन सहैव तस्य ठूमरी-पद्धतावपि पूर्णं प्रभुत्वमासीत् । ठूमरीपद्धतौ मनोरञ्जकाया अतीव मधुरायाश्च स्वरावलेः सङ्कलनं तेनैवाऽऽरब्धमासीत् । आत्यन्तिकेन दृढेन चाऽभ्यासेन (रियाज) तेन स्वीयं कण्ठपीठमत्यन्तमधुरं मृदुतमं च कृतमासीत् । तस्य गानेन हि औदीच्या दाक्षिणात्याश्चाऽपि सङ्गीतज्ञाः श्रोतारश्च मुग्धीभवन्ति स्म । एतत्फलत्वेन नैके कार्यक्रमास्तस्य दक्षिणभारतीयनगरेषु सञ्जाताः । शिरडीवासि-साँइबाबा-नागपुरस्थसन्तताजुद्दीनबाबा-इत्यादीनां सत्पुरुषाणां मनस्तोषणार्थं तेषां सन्निधौ तेन बहुदिनानि गीतमासीत् । एकदा च मैसूरुनगरस्थ-सन्तकलन्दरहज़रत-इत्यस्य समाधिस्थाने तेन सप्तदिनानि यावद् गीतम् । तदा गायतस्तस्य समीपे व्याघ्र एक आगतस्तं प्रदक्षिणीकृत्य च प्रत्यावृतः । एतद् दृष्ट्वा समाधिस्थलवास्तव्यफकीरेणोक्तं- 'भो ! हज़रतो भवति प्रसन्नोऽस्ति, अतो यथेच्छं किमपि मार्गयतु नाम ।' अनेनोक्तं - 'नाऽहं किमपीच्छामि, केवलं ममाऽन्त्यकाले मे मत्पार्श्ववर्तिजनानां च न किञ्चिद् दुःखं कष्टं वा भवेदित्येतदेवाऽभिलषामि । ततः प्रभृति यदा १९३७ तमे वर्षे पाण्डिचेरीनगरं प्रति श्रीअरविन्दमहोदयाय सङ्गीतश्रावणार्थं गच्छतस्तस्य मध्येमार्गमेवाऽवसानं जातं तावत् तस्य न काऽपि देहबाधा जाता नाऽप्यन्येषां किमपि कष्टं जातम् । देहान्तोऽपि तस्येच्छानुरूपमेव जातः ।
एतादृशस्य अब्दुलकरीम खाँ-महोदयस्य गृहे एकः टीपु-इत्यभिधो गृहशुनकः पालित आसीत् । खाँमहोदये विद्यार्थिनः सङ्गीतं शिक्षयति एषोऽपि
र
२७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106