Book Title: Nandanvan Kalpataru 2009 00 SrNo 22
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
आस्वादः
संवेदनशीलता 'पशु-पक्षिणाम्
मुनिकल्याणकीर्तिविजयः
'स्वतः प्रमाणं ? परतः प्रमाणं ?', कीराङ्गना यत्र गिरो गिरन्ति । द्वारस्थनीडान्तरसन्निरुद्धा, जानीहि तं मण्डनमिश्रहम् ॥
श्रूयते यत् मण्डनमिश्रादीनां विद्यावाचस्पतीनां गृह-पाठशालादिषु तथाविधं सघनं पठन-पाठनादिकं प्रावर्तत यत्-आदिनं तर्कपूर्णसँल्लापपरान् विद्यार्थिनो गतागतं कुर्वाणान् विलोक्य परितो वर्तमानाः पक्षिणोऽपि तच्छ्रवणेनाऽत्यन्तं भाविताः सन्तस्तदेव गिरन्ति स्मेति ।
पशु-पक्षिणो हि यद्यपि स्वमनोगतमभिव्यक्तीकर्तुं नैव समर्थास्तथाऽपि ते वातावरणं परिसरं च प्रत्यतीव संवेदनशीला भवन्ति । प्रायशश्च मनुष्यवदेव यथापरिसरं भाविता भवन्ति ।
अत्राऽर्थे च प्रसिद्धा कथाऽप्यस्माभिः श्रुतचरैव, यथा- - केनचिद् व्याधेनैकदाऽरण्याद् द्वौ शुकशावको गृहीतौ विक्रीतौ च तयोरेकतरश्चौरेभ्योऽन्यश्च सज्जनाय कस्मैचित् । चौरैः स शावकः स्वीयस्थानाद् बहिः पञ्जरस्थः स्थापितः सज्जनेन च कस्यचित् सन्यासिन आश्रमस्याऽङ्गणे । अथैकदा कश्चन राजा मृगयार्थमटव्यां परिभ्राम्यन् मार्गभ्रष्टः सन् तच्चौरस्थानान्तिकं प्राप्तः । तं दूरतो विलोक्यैव स शुकशावक उच्चैराक्रोशन्निव विरौति स्म यत्- 'गृह्यतां गृह्यतामेष सधन: कश्चिद् याति, मार्यतां तं धनं च गृह्यता'मित्यादि । एतच्छ्रुत्वा भीतो राजा सत्वरं ततः पलायितः ।
अग्रे गच्छन् तस्य सन्यासिनो मठं प्राप्तो यत्र द्वितीयः शुकशावक आसीत् । - राजानमागच्छन्तं दृष्ट्वैव स शावको मधुरं विरौति स्म यथा, 'आगम्यतामागम्यतां, स्वागतं भवतः, जलपानं क्रियतां किञ्चिद् विश्रम्यता' मित्यादि । एतान् कर्णप्रियान्
Jain Education International
२५
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106