SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ समाकर्ण्य च तद्वचनं, 'सत्यं(त्यो) भवतु श्रीचरणानामयमादेश' इति निगद्य, 'महाराज ! भीतभीत इव लज्जया परीत एष जन इदानीं शरशत(५००)परिमितमेव द्रव्यं दित्सति, तत्र करुणावरुणालयेन श्रीमता क्षान्तेन भवितव्य'मिति निवेदयन् तूष्णीम्बभूव । यतिरपि तदीयसत्यं निर्व्याजं च वचनमाकर्ण्य प्रसन्नतया तमेव द्रव्यमेकस्मिन् 65 भाजने निःक्षिप्या'ऽप्रतिबन्धव्यापारेण तत्रत्यशिल्पकर्म कुर्वतां जनानामसङ्ख्यातमेव द्रव्यं वितर, लप्स्यते च ते यथाप्राप्यम् । न च कदाचिदपि तद्भाजनस्य द्रव्यं कियदिति परिगणनीय'मिति समुपदिदेश। अथ च तदीयमादेशं शिरसाऽभिनन्द्य बाण-मुनि-रस-भूसुरेश(१६७५)परिमिते वर्षे तदीयकार्यजातमाररम्भत् । अचिरेणैव च प्रतिष्ठायोग्यकार्य सम्पाद्य १) वसु-समुद्र-रस-आकाश(१६७८)परिमिते संवत्सरे श्री१०८स्वयम्भूपार्श्वनाथ-(8) प्रतिकृति प्रातिष्ठपत् । प्रतिष्ठानन्तरमनेकवर्षपर्यन्तं तत्रत्यकार्यजातं तथैव निराबाधं निरन्तरं समजायत । अथैकदा भाविविधिघटनाप्राबल्येन तन्मूलकं यतिवरवचनं विस्मृत्य तद्भाजनस्थं द्रव्यं कियदिति परिज्ञातुमगणयत् । गणयश्च तदेव पञ्चशतपरिमितं द्रव्यमुपलभ्य जाततत्कालस्मृतिर्बहुतरनिन्दितस्वकीयव्यापारः प्रशंसितदैवमाहात्म्यश्च । तदानीमेव सर्वकार्यजातमवारुन्धत् । तद्दिनादारभ्य तदवशेषीभूतमेवाऽऽसीत् । मध्ये चाऽनेकविधपाखण्डिजनानां विहारभूमिरभवत् । दृष्ट्वा च तत् प्रान्तीयजनाः ) केवलं दुःखमेवाऽनुभूयाऽप्रतीकार्यतया तूष्णीमासीषुः । अथैवं गतवति बहुतरसमये समयानुकूलतया नु, मरुदेशस्य भाग्योदयान्नु, अत्रत्यलोकपापक्षयान्नु, तेषां भाग्योदयान्नु, श्रीमत्पार्श्वनाथप्रभावान्नु कदाचिन्निजसद्धर्मपद्धतिमनुसरन् विचरन् भुवनतलमनेकानेकविद्वज्जनजनताजनजेगीयमानश्रुतिस्मृतिपुराणेतिहास-काव्यनाटकाख्यान-काव्यायिकालेखपटुताद्यनेकचातुर्यचु(च)ञ्चुचरणकमल-चरणकमलचञ्चरीकायमानानवरतशिष्टविशिष्टविनीतशिष्योपशिष्यसमाजसमाराधितपादमूल-पादमूलोपगतानेकतरराजराजन्मस्तकालङ्कारप्रभापटलप्रद्योतितदशदिग्भागाविरतजैनशासनशासितप्रभूतजनसमाजसभाजितसंसत्-स्वकीयामृतरसकल्पनिरवसानव्याख्यानविख्यापितसद्धर्माचरणपूतकीर्तिकीर्तिदूतकाभिसारिताष्टा(ष्ट)सिद्धि-समस्तमुनिजनहृत्पुण्डरीकविकाशविकाशितज्ञानप्रकाशतरणितरुणतेजःप्रकाशप्रभावपिहितान्तेवासिमानसतमःसञ्चार १३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521022
Book TitleNandanvan Kalpataru 2009 00 SrNo 22
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2009
Total Pages106
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy