SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ रोलम्बकदम्बझङ्काररवबधिरीकृतदिगन्तमण्डलं हयहेषाघोषप्रतिध्वनितराजसदनं सततबन्दिजनोदितजयशब्दतुलितामरेन्द्रसौभाग्यमास्थानमण्डपमाससाद । आसाद्य च रत्नप्रभापटलालक्षितानेकविग्रह-विग्रह [ वदिवाऽराति] जनजनितत्रासाने क- नरपतिशिरश्चूडामणिरञ्जितपदनख- पशुपतिपराजयजनितभयोरु (र) री - कृतमानवदेहमकरध्वजदेह - देहप्रभाप्रभावपिहितामरेन्द्रकथकथावशेषितनल-कर्णादिभूपतिलक - भूपतिलकसर्वगुणगरिमागरिष्ठबलिष्ठश्रेष्ठश्रेष्ठविद्याविद्यासम्भार-भासुरशेमुषीवैमुखीकृतसुरगुरुगरिमगुरुतरशासनशासितभुवनवलय-भुवनवलयावलग्नयशःप्रचारप्रतिष्ठापितभुवनत्रयलोकपवित्रकीर्ति राजानमवलोकितवान् । गत्वा च तदीयपादपद्मसविधे सविनयनतकन्धरः क्षितितलमिलितशिरः प्रणनाम । अनन्तरमुपविष्टे च तस्मिन् सबहुमानं पृष्टे च राज्ञा सर्वमेव याथातथ्येनाऽऽख्यत् । संश्रुत्य च तदीयवचनजातं निर्दोषतां तस्याऽवगम्य जातद्विगुणतरविश्रम्भो राजा सादरमवोचत् - 'अयि भवद्भिरद्याऽऽरभ्य निपुणनिरीक्षणचमत्कृतराजपुरुषैस्तथा राज्यकार्यं सम्पादनीयं यथाऽयमिदानीं जात मा(आ) नन्दो मम चेतसो निरवसानेन भूयेत' इति समादिश्य मन्त्रियोग्यसत्कारेण सत्कृत्य विसर्जितवान् । समुपजाततत्काल हर्षप्रकर्षो भाण्डारी स्वपुरं जिगमिषुस्तदध्वनि तमेव जिनप्रतिबिम्बं दिदृक्षुर्यतिवरस्योपाश्रयमाजगाम । अनन्तरं कृतयथाविधिदेवनमस्कृतिर्यतिवरं च प्रणम्य सर्वमेव तत्रत्यमुदन्तजातं विज्ञापितवान् । आकर्ण्य चाऽमन्दानन्दपूरपूरितो यतिवरस्तं तदीयधर्मस्थितिं च भूयो भूयः प्रशशंस । अथ विनीतो भाण्डारी सविनयमवोचत् - 'महात्मन् ! यद्यप्ययं जनः सकलसंसारबन्धनबद्धहृदयो न किमपि सदनुष्ठानं कुरुते तथाऽपीदानीन्तनभवदीयदर्शनसञ्जातपुण्यप्रभावपिहितकलुषः किमपि मदीययोग्यतायोग्यकर्तव्यमुपदिश्य चिरायाऽनुग्राह्योऽयमिति । सकलजनान्तःकरणवेदिना तेन समुपलभ्य तदीयहृद्गताभिप्रायमभाणि'सेवक! भवतां धर्माचरणतत्परचित्तानां तदुपदेशो नाम दिवा दीपेन दिनकरदर्शनमेव । तथापि, अत्रत्यजिनप्रतिबिम्बस्य प्रतिष्ठापनयोग्यमेकं मन्दिरं विधेयमस्ति । तत्र भवद्भिर्यतमानैर्भवितव्य' मिति । Jain Education International १२ For Private & Personal Use Only www.jainelibrary.org
SR No.521022
Book TitleNandanvan Kalpataru 2009 00 SrNo 22
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2009
Total Pages106
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy