________________
केनाऽपि निजदौर्जन्यजनितजगत्पीडाव्यापारव्यापृतचित्तेन सहजमित्रपदवीमसहमानेन राजसंसदि तदीयालीकदोषशताविष्करणेन जनितराजमनःक्षोभेणाऽधिक्षिप्तः 'सत्वरं मदन्तिकमानये'ति राजाज्ञया विसर्जितदूतस्तमुद्देशमेव जिगमिषुर्बुभुक्षुश्च सपरिवारोऽतिप्रसन्नतया सर्वविधारामपुष्करिण्याद्यनेकभोगभोग्यवस्तु सनाथां तामेव नगरीमासाद्य समुपविवेश ।
अनन्तरं कृतस्नानादिनिजनित्यनियमकृत्यान् परिजनान् भवद्भिर्भोक्तव्यं, मया तु नैव भुज्यत' इति समादिदेश । अथाऽनेकानुरोधाराधितचितैः पुनः पुनः पृच्छातत्परैर्निजाहारव्यापारवञ्चितैरतिविमनस्कैः परिजनैः पृष्टो 'जैनोऽहमन्तरेण त्रिजगत्पावनचरितं जैनप्रतिबिम्बदर्शनं न भोक्ष्य' इति विज्ञापितवान् । आकलय्य च तदीयहृद्गताभिप्रायमितस्ततस्तदन्वेषणतत्पराः परिजनाः कस्मादपि विज्ञाय यतिवरनिकेतनस्थजैनप्रतिबिम्बं सत्वरं ससम्भ्रममुपेत्य व्यजिज्ञपन् । 'देव ! अत्रैव ग्रामे कस्याऽपि यतिन उपाश्रयेऽस्ति श्रीजिनप्रतिबिम्ब'मिति परिजनेभ्यः संश्रुत्य । जाततत्कालहर्षप्रकर्षो बहुतरप्रशंसितनिजभागधेयस्तमुद्देशमाजगाम । आगत्य च कृतदेवदर्शनस्तं प्रणम्य देवप्रतिमप्रभापटलसन्द्योतितदिगन्तरालमतिप्रभावं यतिमाससाद ।
आसाद्य च निजनमन्मौलिना दूरत एव प्रणम्य भक्तिप्रह्वतया नाऽतिदूरे समुपविवेश । आसीनं च तं 'कोऽपि पुरुषविशेषोऽय'मिति मन्वानो जिज्ञासुश्च तदीयमुदन्तजातं, 'भद्र ! कुशलं ते ? काऽपि चिन्तापिशाचिनीगृहीतचित्तवृत्तितया वैलक्ष्य इव लक्ष्यते(से) । तद्यदि न चेद् गोप्यमिच्छामि श्रोतुं शोकहेतु'मिति पृष्टः । 'किमस्ति सर्वेषां हृदयान्तरज्ञानवतां श्रीमतामपि गोप्य'मिति सर्वमेव निजवृत्तान्तं विन्यवेदयत् । श्रुत्वा च तदीयमुदन्तजातं, 'भद्र ! न खल्वस्ति सत्यव्रतानां भयम् । सहनशीलता हि बलवतामप्यापदां पारं नयति ।' तथा च- 'धर्मो महामङ्गल- | मङ्गभाजाम् । धर्मो रक्षति धार्मिक'मित्यादि बहुतरोपदेशवचनानि कथयित्वा भूयो भूयः समाश्वासितवान् ।
आस्वाद्य च सुधासध्रीञ्च(सध्यक्) तदीयवचनं प्रणम्य च पुनः पुनः समागत्य निजावासे कृतभोजनस्तत्क्षणमेव प्रतस्थे ।
अथाऽपरेधुः प्रभात एव कृतनित्यक्रियः समाराध्य जनदुःखहरणक्षम जिनदेवं यतिवरवचनं मनसि सन्ध्याय मानोराजभवनाभिमुखं प्रतिष्ठितवान् । । क्षणेन चाऽनतिदूरतया अनेकदेशान्तरागतराजजनमत्तमातङ्गमदस्रावा(व)वासाहूत
११
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org