________________
AARAre
MJAM
श्रीकर्पटहेटक(कापरड)तीर्थस्थापनं
तज्जीर्णोद्धार
__ - अज्ञातनामा विद्वान्
यामाश्रित्य परब्रह्म संसारे सम्प्रवर्तते ।।
तां शब्दरूपां सर्वेषामाप्तां शक्तिं नमाम्यहम् ॥ अस्ति खलु समस्तजनताजनजेगीयमानामरलोकलोचनचकोरीपेपीयमानयशश्चन्द्रचन्द्रिकाधवलीकृतदिगन्त-दिगन्तरागतानेकजनसम्मर्दसमर्दितविमलशीतलसुगन्धितरम्यमार्ग-मार्गगतानेकसुधाधवलितप्रासादप्रसारप्रहसितगिरीशगिरिप्रकाशसततमङ्गलगीतध्वनिध्वनितगव्यूतिरनेकविधभोगसम्भोगभावितभोगिजनमण्डिता कर्पटहेटक(कापरडा) नाम नगरी ।
तस्यामनेकानेकनमल्लोकमौलिमालामणिप्रभापिञ्जरितचरणनखमयूखः कोऽपि । निजजगत्पावनपुण्यचरितप्रभावभयचकितपिहितद्वारामरावतीविहरणलालसालालायितमानस-मानसवासविरतिप्रकाशपर्याप्तकलरवाहूतामराङ्गनाभिनन्दितनन्दनवनभोगभावनाभावितमानसराजहंस-राजहंसकृतावासानेकतरुणगणिकागणसङ्गीतस्वादुचपलचित्तामरेन्द्रजनितभीतिरसारसंसारविरतचित्तो यती।
स चाऽनुक्षणं क्षणप्रभेव चञ्चलताचञ्चलितजीवनजातं मन्यमानोऽनारतजैनागमाभ्यासविमलीकृतस्वान्तः स्वान्ते सावधानतया जिनेश्वरमेवाऽऽराधयन् प्रतिवसति स्म ।
तमेकदा राजद्राजन्यशिरःशेखरीभूतामूल्यरत्न-रत्नजालच्छायासञ्जातप्रकाशप्रभव-प्रसरितविमलचन्द्रप्रभापटल-चरणनखमण्डलयोधपुरावनीमहेन्द्रसंस्थापितो जयतारणप्रान्तीयाध्यक्षकर्मणि कर्मकुशलतासमाराधितराजचित्तप्रसादो निजसद्धीगणावधीरितसकलराजपुरुषो भण्डारी-भाणाजीत्याख्याप्रख्यातभुवनः
१०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org