SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ बालगीतम् Va. शब्दधातुरूपाण्यवगच्छ बालगीतमा डॉ. आचार्य रामकिशोरमिश्रः बालक एको द्वौ च दानवौ राक्षसाश्च बहुवचने सन्ति । विष्णुं शिवौ ब्रह्मणो हस्तान् भक्ता भक्त्या विलोकयन्ति । गुप्त्या खड्गाभ्यां च सायकैः शत्रुभ्यः स्वात्मानं रक्ष । पुत्र ! शब्दरूपाण्यवगच्छ ॥१॥ स्वले मातृभ्यां च पितृभ्यः शब्दान् ज्ञातुं वचनं देहि । खलाच्च चौराभ्यां दुष्टेभ्यः स्वं त्रातुं मे समीपमेहि । बुधस्य जनयोर्लोकानां च ज्ञाने फलयोः कर्मसु गच्छ । पुत्र ! शब्दरूपाण्यवगच्छ ॥२॥ इत्थं सप्तविभक्तिषु ज्ञात्वा शब्दस्वरूपं लोके व्यवहर । बालक ! पितरौ ! मानवाः ! अहो ! सम्बोधनरूपाणि त्वं स्मर । अधुना धातुरुपज्ञानार्थं कक्षे कविं स्वपितरं गच्छ । पुत्र ! धातुरूपाण्यवगच्छ ॥३॥ एहि पुत्र ! आसन्यामुपविश, धातोर्दश हि लकाराः सन्ति । पठति पठतः पठन्ति लटि भोरन्यपुरुषरूपाणि भवन्ति । किं पश्यसि मां ? युवां न पठथः, पुस्तकैश्च सह यूयं गच्छथ । सुत ! मध्यमरूपाण्यवगच्छ ॥४॥ - अध्यापयामि त्वामावां पुनरिदं लिखावस्ततः पठामः । इत्युत्तमपुरुषस्य क्रियायां रूपं ज्ञात्वा हृदि च धरामः । Lum. मत्तः शिक्षकाच्च त्वं सर्वं व्याकरणं साहित्यमधीष्ठ । पुत्र ! धातुरूपं जानीच ॥५॥ २९५/१४, पट्टीरामपुरम्, खेकड़ा (बागपत) उ.प्र. २५०१०१ N a aun नेकड़ा (बागपत) 3. प्रीरामपुरम्, JMA Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521022
Book TitleNandanvan Kalpataru 2009 00 SrNo 22
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2009
Total Pages106
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy