Book Title: Nandanvan Kalpataru 2001 00 SrNo 05
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
कर्ममर्मभेदकृत् तपः कृत्वा तपसा सत्यस्य साक्षात्कारः कृतः । सत्यविहीने न कोऽपि श्रद्धां करोति । भगवता सत्यधर्मायाऽधिकतमं महत्त्वं प्रदत्तम् । सत्यस्य जिज्ञासा तस्य जीवने प्रकृष्टा प्रज्वलिता आसीत् । भगवतो जीवने सत्यमेव परमतत्त्वमासीत् । ततः 'महावीर एव सत्यधर्मः, सत्यधर्म एव महावीर' इति लोकोक्तिः प्रथिता जाता । महावीरस्य महावीरत्वं सत्यधर्मात् प्रकटीभूतम् । सत्यधर्मशोधने सकलशक्तिः सद्व्ययीकृता। लब्धसत्यवान् सर्वं प्रापति, अलब्धसत्यवान् किमपि न प्राप्नोति ।
सत्यसाक्षात्कारात्मा एव सत्यस्वरूपमुपदेष्टुमर्हो भवति । सत्यसाक्षात्कार एव आत्मसाक्षात्कारः आत्मसाक्षात्कार एव सत्यसाक्षात्कारः । आत्मसाक्षात्कारस्य प्रवर्तको भगवान् महावीर आसीत् । भगवान् महावीरः सत्यस्य अनेकस्वरूपद्रष्टा आसीत् । भगवन्निरुपितं सर्वं सत्यमस्माभिः न ज्ञातुं शक्यम् । भगवन्मते अहिंसासत्ययोः कोऽपि द्वैतभावो न विद्यते । परिपूर्णात्मावस्था अहिंसा अस्ति । सत्यं न अहिंसाभिन्नम् । यत्र सत्यमस्ति तत्र अहिंसा अस्त्येव । सत्यमहिंसायाः परिसरे एव प्रकटति । अहिंसा सह सत्येनैव चलति । यत्र अहिंसा तत्र सत्यं, यत्र हिंसा तत्र सत्याऽभावः । यत्र सर्वज्ञप्रकथितजैनधर्म : तत्रैव अहिंसा, यत्र अहिंसा तत्रैव सर्वज्ञभाषितजैनधर्मः इति विधातुं न अतिशयोक्तिः ।
सत्यस्य नैकप्रकारा विद्यन्ते । यद वीतरागपरमात्मभिः प्ररूपितमस्ति तदेव सत्यमस्ति 'तमेव सच्चं णिस्संकं जं जिणेहिं पवेइयं' सत्यमखण्डमस्ति अविभाज्यमस्ति सहजमस्ति । द्वैतवादिमते आत्मा अपि सत्यमस्ति, अनात्माऽपि सत्यमस्ति ।
अद्वैतवादिमते आत्मा एव सत्यमस्ति, शेषं मिथ्या अस्ति - 'ब्रह्म सत्यं जगन्मिथ्या' । आत्मा एव सर्वज्ञस्य ज्ञानमस्ति दर्शनमस्ति चारित्रमस्ति । परमात्मा परिपूर्णसत्यमस्ति । आत्मनः चरमविकासः परमात्मा अस्ति । यावत्कालपर्यन्तमात्मा स्वान्तिमलक्ष्यं न सानोति तावत्कालपर्यन्तमपूर्णोऽस्ति, यदा चरमलक्ष्यं साध्यति तदा परिपूर्णो भवति । आत्मा परमात्मनो बीजमस्ति, परमात्मा आत्मनः पूर्णविकासोऽस्ति । आत्मपरमात्मानौ द्वौ एकतत्त्वस्य भिन्नौ रूपौ स्तः । किन्तु परमात्मा आत्मनः उत्तरकालीनरूपतो न भिन्नोऽस्ति, परमात्मनः पूर्वकालीनरूपत आत्मनः पृथग् अस्तित्वं नास्ति । एकत्वदृष्टित आत्मा एव परमात्मा अस्ति, परमात्मा एव आत्मा अस्ति । स्थितिभेददृष्टितः चैतन्यस्य परिपूर्णरूपं परमात्मा
२१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130