Book Title: Nandanvan Kalpataru 2001 00 SrNo 05
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
यदुक्तं श्रीदशवैकालिकसूत्रनिर्युक्तौ - भावेण उ संजओ समणो ।। १५३ ।। निरुक्तिश्च श्रमणशब्दस्याऽस्यामेव नियुक्तौ एवं व्याख्याता (प्राकृतभाषायां हि 'श्रमण' शब्दस्य 'समण' इति परावर्तनं भवति । तमाश्रित्य एषा निरुक्तिस्तीति) -
जह मम न पियं दुक्खं जाणिय एमेव सव्वजीवाणं ।
न हणेइ न हणावेइ य सममणई तेण सो समणो ॥१५८॥ अस्या भावार्थः - यथा स्वस्याऽऽत्मनः स्वल्पमपि कण्टकवेधनादिकं दुःखं नैवाऽभीप्सितं तथैवाऽस्मिन् भुवने जीवतां सर्वेषामपि कीटादिपुरन्दरपर्यवसानानां जन्मिनामणीयोऽपि दुःखं नैवेष्टम् । इत्येवं सर्वेषां दुःखप्रातिकूल्यं ज्ञात्वा यः स्वयमपि जीवान् न हन्ति न चाऽप्यन्यैर्घातयति घ्नन्तं चाऽन्यं नाऽनुमतिमपि दत्ते इत्यनेन प्रकारेण यः 'समं अणति' तुल्यं गच्छति सर्वत्राऽऽत्मसाम्येन पश्यति यतस्तेनाऽसौ समणः श्रमण इत्युच्यते। तथा -
नत्थि य सि कोइ वेसो पिओ व सव्वेस चेव जीवेस ।
एएण होइ समणो एसो अन्नो वि पज्जाओ ।। १५५ ॥ भावार्थः तस्य च सर्वत्र जीवेषु तुल्यमनस्कत्वेन नैव विद्यते कस्यचिदप्युपरिष्टाद् द्वेषो रोषो वा न चाऽपि कस्मिंश्चित् स्नेहो ममत्वं वा । एतेन स समं मनोऽस्येति निरुक्ताश्रयणेन सममनाः (प्राकृते सममणो - समणो) श्रमणो भवति । एषोऽपि तस्याऽन्यः पर्यायः कथितः ।
ता समणो जइ सुमणो भावेण य जइ न होइ पावमणो।
सयणे य जणे य समो समो य माणावमाणेसु ॥१५६ ॥ भावार्थः तत एव यदि श्रमणो द्रव्यतः शोभनं मनोऽस्येति कृत्वा सुमना भवति भावतस्तु पापसङ्गतचित्तो न भवति तदा तत्फलत्वेन स स्वीया एते इति कल्पितेषु स्वजनेषु परकीया एते इति कल्पितेषु इतरजनेषु च समानचित्तवृत्तिको भवति, तथा मानापमानयोः सत्कार
१. तुलना - आत्मवत् सर्वभूतेषु यः पश्यति स पश्यति ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130