Book Title: Nandanvan Kalpataru 2001 00 SrNo 05
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 72
________________ (२६) विभ्रमादिदोषविमुक्तता (२७) चित्रकृत्त्वम् (२८) अद्भुतत्वम् (२९) अनतिविलम्बिता व्यत्ययात्मकैर्वचनदोषैनितरां विरहितमेव जिनवचनं भवति । विभ्रम-विक्षेप-किलिकिञ्चितादिभिर्मानसैर्दोषै रहितं तद् भवति । वक्तु र्मनसो भ्रान्तिविभ्रमः, कथयितव्येऽर्थे वक्तुरनासक्तिर्विक्षेपः, युगपद् विविक्तैर्वा रोष-भया-ऽभिलाषादिविकारैर्मनसो व्याकुलत्वं किलिकिञ्चिता कथ्यते ।) प्रतिपाद्यमानवस्तुस्वरूपे श्रोतृणां निरन्तरं कुतूहलं जनयद् भगवतां देशनावचनं भवति । श्रूयमाणं हि भगवद्वचनं पर्षदां 'अद्भुतं अद्भुतं' इत्युद्गारजनकं भवति । द्वयोः शब्दयोः पदयोर्वाक्ययोश्च मध्येऽतिविलम्बविरहितं जिनेन्द्रभाषितं भवति । (यतो यदि तत्राऽतिविलम्बो भवेत् तदा श्रोतृणां सम्यग् बोधो न भवेत् ।) विवक्षितवस्तुतत्त्वस्य वैचित्र्यवैविध्यसनाथैर्वर्णनैः श्रोतृन् रससागरे निमज्जयति जिनराजवचनम् । अन्येषां वक्तृवरेण्यानामपि वक्तव्यापेक्षया सर्वथा सर्वदा च वैशिष्टयावहं भवति जैनेन्द्रं वचनम् । सत्त्वगुणस्य प्राधान्य एव समादरशालिनी भवति तीर्थकरपरमात्मनां कथन श्रेणिः । वर्ण-पद-वाक्यानां समुच्चारणे यथोचितमन्तरमनुसृत्यैव विस्पष्टतया सम्भाष्यमाणं जिनोत्तमानां देशनावचनं भवति । (३०) अनेकजातिवैचित्र्यम् (३१) आरोपितविशेषता (३२) सत्त्वप्रधानता (३३) वर्ण-पद-वाक्यविविक्तता ५९ Jain Education International For Private & Personal Use Only www.jainelibrary.org.

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130