Book Title: Nandanvan Kalpataru 2001 00 SrNo 05
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
सन्तस्तं जीर्णश्रेष्ठिं च प्रशंसन्तः प्रतिनिववृतिरे । केवली अपि यथाक्रममन्यत्र विजहार । कथानकं त्वेतदप्यत्यन्तं प्रसिद्धं जैन समाजे । भावनाया: प्रकर्षेण कीदृशो लाभो जायते इति ख्यापनार्थमेषा कथा बहुशः कथ्यते प्रवचनसभायां गुरुभगवद्भिः ।
अत्र "दुन्दुभिनादं श्रुत्वा श्रेष्ठिनो भावधारा त्रुटिता । क्षणमपि यदि तेन नादो न श्रुतः स्यात् तर्हि स केवलज्ञानं प्राप्नुयात्" इति तु कथ्यत एव, किन्तु सामान्यतः कथायाः श्रवणकाले प्रश्नोऽपि समुद्भूयते स्म यत् - 'स केवलज्ञानं प्राप्नुयात्' इति केन प्ररूपितम् ? भगवता महावीरेण तु न तादृशं कदापि कथितम्, तर्हि केन कथितम् ? समाधानं त्वस्य ग्रन्थस्य वाचनेन जातम् । किन्तु तत्समनन्तरमे वाऽन्योऽपि प्रश्नस्तत्रोपस्थितोऽभूत्, यद् - कोऽयं केवलज्ञानी महात्मा, य: त्रयोविंशतितमतीर्थकृतः श्रीपार्श्वनाथस्य शिष्यत्वेनाऽत्र वर्णित: ?
प्रश्नस्याऽस्य
प्रश्ने उपस्थितेऽस्माभिरेवं विचारितम् -
पर्युषणपर्वणि नियमितरूपेण कल्पसूत्रनामक आगमग्रन्थो वाच्यते । तस्मिन् आग तीर्थकराणां चरित्राणि वर्णितानि । तत्र चरित्राणां पर्यवसाने प्रत्येकं तीर्थकराणां पर्यायान्तःकृद्भूमि: युगान्त:कृद्भूमिश्च कथिते स्तः । तत्र पर्यायान्तःकृद्भूमिर्नाम तीर्थकराणां केवलज्ञानप्राप्तेः पश्चात् यावता कालेन - केवलित्वपर्यायेण कोऽप्यात्मा सर्वकर्मक्षयं कृत्वा मोक्षमवाप्नोति मोक्षमार्गं चोट्घाटयति स कालः पर्यायान्तःकृद्भूमिरित्युच्यते। युगान्तःकृद्भूमिर्नाम तीर्थकराणां यावन्तः पट्टधरसाधवो मोक्षं प्राप्नुवन्ति सा युगान्तः कृद्भूमिः । तत्र श्रीपार्श्वनाथतीर्थकरस्य चतुर्थपट्टधरशिष्यपर्यन्तं मोक्षमार्ग: प्रवर्तित आसीत्, इत्येषा युगान्तः कृद्भूमिः तेषां प्ररूपितमस्ति ।
-
अत्रैव तर्क्यते यद् - ‘अस्मिन् चरित्रग्रन्थे वर्णित: केवलज्ञानी भगवान् किं श्रीपार्श्वनाथभगवत: चतुर्थपट्टधरपुरुषः खलु ?' एष तर्क एतस्मात् सत्यं प्रतिभाति यत् श्रीपार्श्वनाथस्य निर्वाणस्य सार्धद्विशतवर्षेभ्यः पश्चात् श्रीमहावीरस्य निर्वाणं जातम् । भगवत: श्रीमहावीरास्यऽऽयुष्यं तु द्विसप्ततिवर्षमितमासीत्, अतोऽष्टसप्तत्यधिकशतवर्षेभ्यः तेषां जन्म
Jain Education International
८१
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130