Book Title: Nandanvan Kalpataru 2001 00 SrNo 05
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
सेनल्था
विजयशीलचन्द्रसूरिः आसीदेको 'ध्यान'गुरुः । तत्समीपमागत्य एकेन विदुषा विज्ञप्तम्- अहं 'ध्यान' बोद्भुमिच्छामि, बोधयतु माम् ।
गुरुणा त्वरितमेकं 'चाय' भृतं कच्चोलकं गृहीत्वा पुनरपि तत्र 'चाय'संज्ञकं पेयं प्रक्षेसुमारब्धम् । तत्तु तत्र अवकाशमलब्ध्वा बहिः प्रवहितुं लग्नम् ।
तद् दृष्ट्वा खिन्नेन विदुषा कथितं - अरे अरे, किं कुरुथ इदम् ? कच्चोलकमिदं भृतपूर्वमेवाऽस्ति, तथापि तत्रैव पुनः पेयप्रक्षेपः किमर्थम् ? इदं तु प्रवहति !
मन्दं स्मित्वा गुरुणोक्तम् - अहमप्येतदेव कथयितुमिच्छामि । भवतां मानसं नैकैर्विकल्पजालैर्बाढं भृतं वर्तते, विकल्पाश्च सततं बहिः प्रवहन्ति । अतस्तत्र 'ध्यान'स्य बोधो यदि प्रक्षिप्येत, तर्हि सोऽपि एतत्पेयवन्नीचैर्वहेत् । अतः प्रथमं मनः रिक्तं करोतु भवान्; पश्चादेव तत्र 'ध्यान' बोधः स्थिरीभवितुमर्हति ।
१०८ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130