Book Title: Nandanvan Kalpataru 2001 00 SrNo 05
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 128
________________ मर्म - नर्म समीर: विनीत ! अधुनाऽस्माकं ग्रामे महान् सांवत्सर आगतोऽस्तीति किं न श्रुतम् ? मयाऽपि श्रुतं, ततोऽहमपि तत्रैव गच्छामि । (दैवज्ञं निरीक्ष्य) विनीत: नमोऽस्तु ते नमोऽस्तु ते । विनीतः दैवज्ञः विनीतः दैवज्ञः विनीतः दैवज्ञः स्वागतं स्वागतम् । पण्डितवर्य ! अस्य बालकस्य भविष्यत् किं ? यत एष मम पुत्रः सदा मृत्तिकामेवाऽत्ति । श्रेष्ठिन् ! आगामिनि काले एष बालको गृहं, प्रासादं, जलसंग्राहिकां, मार्गं, सेतुं प्रणालिं च भक्षयिष्यति । कोऽर्थ : ? एष देशनेता भविष्यति । भिक्षुकः भो श्रेष्ठिन् ! देहि रुप्यकं भगवन्नाम्ना, तव कल्याणं भविष्यति । नास्ति मम समीपमेकमपि रुप्यकम् । श्रेष्ठी भिक्षुकः तर्हि देह्यर्धरुप्यकम् । श्रेष्ठी भिक्षुकः श्रेष्ठी क्षमस्व! क्षमस्व! एतदपि नास्ति । तर्हि दशनाणकं देहि । (दण्डं गृहीत्वा ) इतो दूरं गच्छ, एतदपि । नास्ति । भिक्षुकः यदि किमपि नास्ति तर्हि मया सह भिक्षार्थं चल, दास्याम्यहं भोजनम् । Jain Education International ११५ For Private & Personal Use Only --मुनिधर्मकीर्तिविजयः www.jainelibrary.org

Loading...

Page Navigation
1 ... 126 127 128 129 130