Book Title: Nandanvan Kalpataru 2001 00 SrNo 05
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 104
________________ वान्तिपथेन बहिरागतं तस्य च कुक्षिशूलं समुत्पन्नम् । स च तृषापीडितकण्ठो जलस्यैव चिन्तनं कुर्वाणोऽसहिष्णुत्वादुदरशूलस्य समाप्तत्वाच्चाऽऽयुषोऽपध्यानेन मृति प्राप्तः । ततोऽस्मिन्नव नगरपरिसरे प्रचुरजलापूर्णायां वाप्यां दर्दुरत्वेन समुत्पन्नः । जातमात्रोऽपि स उत्प्लुत्य यावद् बहिरागतस्तावत् तेन जलाहरणार्थमागतानां वनितानां परस्परोल्लापाः श्रुता यथा – 'हले ! हले ! द्रुतं मे मार्ग प्रयच्छ येन कृतकर्तव्याऽहं झटिति भगवन्तं महावीरं वन्दितुं गच्छेयम्' इति । एतच्छ्रुत्वा 'मया क्वचिदेष शब्दः श्रुतपूर्वः । किन्तु क्व श्रुतः ?' इत्यादि चिन्तयत ऊहापोहं च कुर्वतस्तस्य मण्डूकस्य पूर्वजन्मनः स्मृतिरुत्पन्ना । जातिस्मरणेन च पूर्वभवस्य सर्वोऽपि वृत्तान्तो ज्ञातः । चिन्तितं च 'अहो ! अकृतसुकृतकर्माऽहं तदा जलाध्यवसाये एव मृत्वाऽधुना मण्डूकत्वेन समुत्पन्नोऽस्मि । अतोऽद्य किञ्चित् पुण्यमुपार्जयामि भगवत्पादान् वन्दयित्वा' इति । ___ ततस्तत्क्षणमेव सोऽपूर्वभक्तिसमुल्लसितमानसो वाप्या निःसृत्याऽत्राऽऽगन्तुं राजमार्गेण यावत् प्रवृत्तः तावत् तव तरलतुरङ्गमस्य खरखुरप्रहारेण जर्जरितशरीरो नितरां शुभाध्यवसायवशेन मृतः । मृत्वा च सम्प्रति दर्दुराङ्कनाम्नि देवविमाने देवत्वेनोत्पन्नोऽस्ति । स दिव्यज्ञानेन पूर्वव्यतिकरं ज्ञात्वा सहसा कुष्ठिरूपं धारयित्वा मम वन्दनार्थमागतो गोशीर्षचन्दनेन च मदीयं देहं विलिलेप।' ___ एतच्छ्रुत्वा सन्तुष्टेन श्रेणिकेन पुनरपि पृष्टम् – 'किन्तु भगवन्तः ! यदाऽस्माभिश्चतुर्भिः क्षुतं तदा तेन किमर्थमेवमसमञ्जसतया प्रलपितम् ? महत् कुतूहलं मेऽस्य रहस्यं श्रोतुम्' इति। ___ परमात्मभिरुदीरितं - 'नाऽत्र किमप्यसमञ्जसम् । शृणु कारणमेतस्याऽपि । त्वं हि जीवन् विपुलं राज्यसुखमनुभवसि किन्तु यदा त्वं मरिष्यसि तदा नरकं गमिष्यसि । अत इदमेव मनस्याधाय क्षुते त्वया तेन देवेन - "चिराय जीव' इति भणितं, यतो मरणानन्तरं त्वया भृशं दुःखं सोढव्यम् । अत्र जीवता हि सुखमेव भोक्तव्यम् । अभयकुमारेण क्षुते तेन देवेन ‘जीव वा म्रियस्व वा' इति यदुक्तं तत्रेदं निमित्तम् । ९१ For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130