Book Title: Nandanvan Kalpataru 2001 00 SrNo 05
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 111
________________ स्वपरोभयकल्याणकारिणी च स्यात् । तदेव चाऽस्माकं सर्वेषां कर्तव्यमपि । ___ एतत् सर्व विचार्य स्वयं स्वः एवाऽत्र संशोधनीयः यत्, 'कुत्राऽस्म्यहम् ? एतादृशः कोऽपि भौतिकताया मोहो मयि उत्थितः किम् ?' स मोहः संशोधनीयः पश्चात् स्वीकरणीयः अन्ततोगत्वा च विमोचनीयोऽपि । अस्मासु सर्वेष्वपि केनाऽप्यंशेन एष मोहो विद्यते एव । सर्व अन्तश्चित्ते स्पष्टमेव दृश्यते । यद् विचार्यते यच्च उच्यते तत् स्वस्यार्थे किं न ज्ञायते ? ज्ञायत एव । अस्त्यस्माकं पार्वे भगवता महावीरेण प्रदत्तं सम्यग् ज्ञानम्, तस्य माध्यमेन उद्भवन् विचाराणां प्रकाशः सर्वानपि मार्गान् प्रकाशयत्येव । केवलं सत्यमुपलक्ष्य तन्मार्गे पुरुषार्थ एव विधेयोऽस्माभिरधुना । अद्य सङ्कल्पः करणीयोऽस्माभिः - "केवलं अभिव्यक्तेः क्षणजीविनं तुच्छं च मोहं चित्तादपसार्य अनुभूतिं सम्प्राप्य ज्ञानक्रिययोः समन्वयः साधयिष्यामः" इति। प्रभूतं लिखितं, अधुना विरमामि । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130