Book Title: Nandanvan Kalpataru 2001 00 SrNo 05
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
ज्ञानक्रिययोः उभयोरपि अद्भुतः समन्वयः कृतो भगवता महावीरेण । किन्तु वर्तमानकाले अत्यन्तं अल्पप्रमाणं स अस्मासु दृश्यते ।
ज्ञानं चिन्तने - विचारे प्रेरकं भवति । आचरणं तु श्रद्धासंवर्धकं भवति । चिन्तनं यदि बुद्धेः परीक्षकं तदा आचरणं श्रद्धायाः परीक्षकम् ।
किं लक्ष्यमस्माकं ज्ञानस्य चिन्तनस्य विचाराणां वा? इत्यस्योपरि अवलम्बते अस्माकं ज्ञानस्य साधनाजीवनस्याऽऽधारः । सत्यस्य पक्षपाति अपि चिन्तनं केवलं अभिव्यक्तिलक्षि सञ्जायते किन्तु यदि अनुभूतौ न तत् प्रेरकं भवति तदा प्रभूतं विनाशयामः । भगवतो महावीरस्य आज्ञायाः प्रधानो ध्वनिरपि प्रथमं आचरणस्य अनुभूतेर्वा अस्ति, अभिव्यक्तिस्तु तत्र गौणत्वं भजते । शोभनानामपि विचाराणां अभिव्यक्तिः अन्येषां लाभकारिणी भवेदपि कदाचित् तथापि ततो मम को लाभविशेषः समुत्पन्नः ? इति तु मया एव विचारणीयम् । मार्गस्य एकप्रदेशे स्थित्वा - अन्ये जना मार्गे प्रवर्तिव्या मया च तत्रैव स्थातव्यम् - इत्यत्र किं चातुर्यम् ? चातुर्यं तु तत्र यदाऽहं सर्वेभ्यो मम अनुसरणे प्रेरयेयम्, मयाऽपि गन्तव्यम् अन्यैः सर्वैरपि गन्तव्यम् । ___ अत्र चिन्तनं यदि अनुभूतिलक्षि भवेत् तद्येव एषा स्थितिः सञ्जायेत किन्तु अभिव्यक्तिलक्षि एव यदि तत् स्यात् तर्हि मार्गस्य एकस्मिन् प्रदेशे स्थित्वा मार्गदर्शनमिव सङ्घटेत । किमस्मभ्यं रोचते ? अथवा तु किमत्र अस्माभिः चयनीयम् ?
भगवतोऽप्येषा एव उक्तिर्यद् - "भवान् स्वयमेव परिपूर्णो भवतु पश्चाच्च अन्येभ्यो मार्ग दर्शयतु, अथवा तु यद् भवान् विचारयति तन्मार्गेण स्वयं गच्छतु सार्धमेव चाऽन्यानपि प्रेरयतु । केवलमभिव्यक्त्या तु 'किञ्चित् मया कृतम्' इति मिथ्याभिमान एव पुष्यते किन्तु न लक्ष्य प्राप्तिं भवति । लक्ष्यंतु गत्या एव प्राप्तुं शक्यम् ।"
विचाराणां गगनविहारात् वास्तविक एकोऽपि पदन्यासः अत्यन्तं दुष्करो भवति । प्रत्येकं अवस्थया वा स्थित्या वाऽनुरूपं विचाराणां आन्दोलनं प्रवर्तत एव मनुष्येषु । तेभ्य एव आन्दोलनेभ्यो जीवनं सृज्यते । तादृशे सर्जने किन्तु प्रबलः पुरुषार्थः अनिवार्यः । पुरुषार्थं विना केवलं विचारा न जीवनस्य सुष्ठ सर्जने समर्था भवन्ति । विचारास्तु पुरुषार्थे यदि
९६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130