Book Title: Nandanvan Kalpataru 2001 00 SrNo 05
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
कामसुखादिकं च विसृज्य संयमः स्वीचकार, सत्यमेव खलु स्वजन्म यथार्थं कृतमनेन निजदेहस्याऽपि ममतां विहाय कर्मनिर्जरार्थं निर्जनं वनमागत्य एतादृशी परमोत्कृष्टसाधनाऽऽदृता इति । ___तदाऽन्यो दुर्मुखनामकाधिपतिरवदत्-त्वं कथमालजालं वदसि, एष मुनिस्तु निर्लज्जो दयाविहीनश्चाऽस्ति । एष तु स्वार्थपरायणो महाधूर्तोऽस्ति, यतः तेन राज्यस्य महानपराधः कृतः । स्वस्य बालकं राज्यं परिवारं च निराधारं विमुच्यतेन दीक्षा स्वीकृता । ततो नाथविहीने राज्ये सर्वेऽपि प्रधानाधिकारिणो 'ऽहंराजा अहं देशरक्षकः' इति मत्वा परस्परं कलहं कुर्वन्ति । अतो राज्यकार्यं मन्दं विज्ञाय अन्येऽपि राजानो मन्त्रिणश्च सर्वमपि राज्यं बालकं चात्मसात् करिष्यन्तीत्यतोऽनेन न सम्यक् कृतम् । __ पतितं कर्णपथे राजर्षेः दुर्मुखस्यैतादृशं वचनं, श्रुत्वा चाभूत् तस्य चित्तं क्षुब्धम्, आन्तरे मनसि कोलाहल: संजातः, मनस्येव कल्पितं क्रूरं युद्धं प्रचलतीतिदृष्टम्, छिद्यमानं राज्यं निरीक्षितं तेन, 'मां रक्षतु मां रक्षतु' इति प्रतिध्वनिः श्रुतिपथमागतः । अरे ! एते दुष्टा मे बालकं राज्यं च बन्दीकुर्वन्ति, इत्यनेकेऽशुभविकल्पाः तस्य राजर्षेः चित्ते रममाणा अभवन् । प्रान्ते मनस्येव तेन स्वयमेव परिपन्थिभिः सत्रा घोरं युद्धं प्रारब्धम् । मनसैवाऽनेकानां जीवानां हत्या कृता । एवं मनसः शुभभावधाराऽपि दुष्टालम्बनेन खण्डिता भूता । अधुना तस्य बाह्यचेष्टा तथा केवलं देह एव साधनायां स्थितः, अपि तु तस्य चेतः साधनायाः प्रतिपक्षीभूतायां सांसारिकचेष्टायां विद्यते । तस्य स्वान्तस्य परिणतिरतिसङ्क्लिष्टाऽस्ति । ततः तेनाऽतिसङ्क्लिष्टाध्यवसायवशेनेदानीं यदि स राजर्षिः म्रियेत तर्हि सप्तमे नरकेऽनुसरेत् ।
विभोरेतादृशं वचन संश्रुत्य श्रेणिकमहाराजस्य मानसे कौतुकं प्रजातम् । ततः क्षणानन्तरं पुनस्तेनाऽपृष्टम् - भगवन् ! अथ अधुना स म्रियेत तर्हि व गच्छेत् ?
मधुरगिरा भगवता व्याकृतं राजन् ! अधुना म्रियेत तहि स सर्वार्थसिद्धविमानमनुसरेत् ।
स्वामिनः पूर्वस्माद्विधानकादेतादृशं विरुद्धं कथनं निशम्य श्रेणिकमहाराजस्य चित्तं सन्देहयुक्तं जातम्, कुतूहलमपि चाऽवाप्तं, ततो निजसंशयनिवारणार्थं तेन पृष्टम्- प्रभो ! क्षणपूर्वं सप्तमं नरकं गमिष्यति इति कथितं, क्षणानन्तरेण सर्वार्थसिद्धविमानं यास्यतीति
१०२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130