Book Title: Nandanvan Kalpataru 2001 00 SrNo 05
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 106
________________ “भगवतो महावीरस्य सप्तविंशतेर्भवानां विश्लेषणम्" सा. युगन्धराश्री महावीरस्वामिभगवतां सप्तविंशतेर्भवेभ्यो देवस्य दश भवाः, मनुजस्य चतुर्दश भवाः, तिरश्चः एको भवः, नारकस्य द्वौ भवौ एवं सप्तविंशतिभवाः सन्ति । तत्र देवस्य दशभवा ईदृशाः सन्ति । (१) द्वितीयभवे प्रथमः सौधर्मदेवलोकः । (२) चतुर्थभवे पञ्चमः ब्रह्मलोकः । (३) सप्तमभवे प्रथमः सौधर्मदेवलोकः । (४) नवमभवे द्वितीयः ईशानदेवलोकः । (५) एकादशभवे तृतीयः सनत्कुमारदेवलोकः । (६) त्रयोदशभवे चतुर्थो माहेन्द्रदेवलोकः । (७) पञ्चदशभवे पञ्चमो ब्रह्मलोकः । (८) सप्तदशभवे सप्तमो महाशुक्रदेवलोकः । (९) चतुर्विंशतितमभवे सप्तमो महाशुक्रदेवलोकः । (१०) षड्विशतितमभवे दशमः प्राणतदेवलोकः । मानुषस्य चतुर्दशभ्यो भवेभ्यः षड् भवाः ब्राह्मणकुलेऽभवन्, ते भवा ईदृशाः सन्ति । (१) पञ्चमे भवे कौशिको ब्राह्मणः । (२) षष्ठे भवे पुष्यमित्रो ब्राह्मणः । (३) अष्टमे भवे अग्निद्योतो ब्राह्मणः । (४) दशमे भवे अग्निभूतिः ब्राह्मणः । ९३ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130