Book Title: Nandanvan Kalpataru 2001 00 SrNo 05
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
इतश्च - शुभभावधारायां अधिकमधिकं आरोहन् स जीर्णश्रेष्ठी भावनायाः प्रकर्षस्य परां कोटिं यावत् प्राप्तवान् तावदेव तेन दुन्दुभिनादः श्रुतः । तत्सार्धमेव च तस्य भावधारा भग्ना, मनसि एव च - "किं भगवता पारणकं कृतम् ? हा ! हा ! कीदृशोऽहं मन्दभाग्यो येन विज्ञप्तोऽपि भगवान् महाङ्गणं न पावितवान् । अथवाऽलमेतेन । न हि निष्पुण्यकः कदाऽपि चिन्तामणिरत्नं प्राप्नोति । तथाऽहमपि निष्पुण्यकेषु प्रथमो येन भगवत्तुल्येन रत्नपात्रेण न लाभान्वितोऽभुवम्' - इत्यादि चिन्तयन् शोकमग्न इव बभूव । परमात्मा तु पारणकं कृत्वा पुनर्विहर्तुं प्रवृत्तः । ___अथ कियता कालेन च तस्यामेव वैशालीनगर्यां त्रयोविंशतीर्थकरस्य श्रीपार्श्वनाथभगवतः शिष्यः केवलज्ञानी आचार्यः समवसृतः । केवलज्ञानिमहात्मन आगमनं श्रुत्वा नगरजना नृपतिश्च आनन्दभरहृदया वन्दितुं तत्राऽऽगताः । केवलिनाऽपि धर्मदेशना प्रदत्ता । देशनां श्रुत्वा अमृतपानेनेव तुष्टा जना हस्तामलकवत् सर्वं प्रत्यक्षं पश्यन्तं केवलिभगवन्तं पप्रच्छुः, यद् – 'भगवन् ! अस्यां नगर्यां को धन्य आत्माऽस्ति ? केन च संसारो लघूकृतः ?' तदा जगाद केवली - 'अस्यां नगर्यां धन्यातिधन्योऽस्ति जीर्णश्रेष्ठी ।'
तदाकर्ण्य राजा उवाच - भगवन् ! किमर्थं भवान् तमेव धन्यत्वेन ख्यापयति? किं तेन भगवतः पारणकं कारितमस्ति उत सार्धद्वादशकोटिसुवर्णस्य वृष्टिं तस्य गृहाङ्गणे पतिताऽस्ति, येन स धन्यः? केवली व्याजहार - "राजन् ! भावेन तु तेनैव पारणकं कारितं परमात्मनः । परमार्थतश्च वसुधारावृष्टिरपि तस्य गृहे एव पतिताऽस्ति । यतः स्वर्गस्य मोक्षसुखस्य चाऽपि स एव भाजनं जातोऽस्ति । यदि च क्षणमपि तेन दुन्दुभिनादः श्रुतो न स्यात् तर्हि भावधारायाः परां कोटिमारूढः स सर्वलोकालोकप्रकाशकं केवलज्ञानमपि प्राप्नुयादेव । अपरं च, भावशून्यवात् अभिनवश्रेष्ठिनस्तु सुवर्णद्रव्यमात्रस्य लाभो जातः, न कश्चिदन्यः । द्रव्यलाभस्तु अत्यन्तं स्थूलः । अतः भोः ! महाभागाः ! चारित्रं देवपूजा दानं च यदि भावशून्यानि तहि निष्फलान्येव गणयेयुः" इति ।
केवलिभगवतः सकाशात् जीर्णश्रेष्ठिनोऽनुमोदनं श्रुत्वा सर्वे नागरा भूपतिश्च प्रसन्नताभाजः
८०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130