Book Title: Nandanvan Kalpataru 2001 00 SrNo 05
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
प्रसिद्धा कथा
अप्रसिद्धा घटना (२) जीर्णश्रेष्ठी
मुनिरत्नकीतिविजयः श्रमणो भगवान् महावीर: श्रामण्यं स्वीकृत्य वायुवन्निर्बन्धो मुक्तप्रतिबन्धश्च ग्रामानुग्राम विहरति स्म । दश वर्षाणि व्यतीतानि । एकादशमचतुर्मास्यर्थं भगवान् वैशालीनगरी प्राप्तवान् । त्रसादीजीवानामुपद्रवै रहिते स्त्री-पशु-नपुंसकादीनां संसर्गमुक्ते निर्दोषस्थले मासचतुष्टयोपवासान् अंगीकृत्य प्रतिमाध्यानेन अवातिष्ठत् । ___ तस्यामेव नगर्यामनेकैः सद्गुणैर्मण्डितो जीर्णश्रेष्ठी नाम श्रावको वसति स्म । अन्यश्च अभिनवाभिधोऽपि श्रेष्ठी तत्रैव वसति स्म । ___कार्यवशादेकदा जीर्णश्रेष्ठी नगर्या बहिरगच्छत् । तत्र च काञ्चनवर्णशरीरं सर्वैरुत्तमलक्षणैर्युक्तं भगवन्तं महावीरं कार्योत्सर्गपूर्वकं स्थितं स दृष्टवान् । भगवन्तमुपलक्ष्य तस्य मन आनन्दोदधौ निमग्नमिवाऽभूत् । हर्षवशात् रोमाञ्चितः स परमात्मानं वन्दितवान् ।
मनसि च – 'इदानीं भिक्षाकालं प्रवर्तते । तथाऽपि भगवान् तु कायोत्सर्गेणैव स्थितोऽस्ति, अतः स उपोषितोऽद्य इति ज्ञायते । यदि च श्वो मम गृहे पारणार्थेमेष अनुग्रहं कुर्यात् तर्हि अहं धन्यभाग्यो भवेयम्' - इति चिन्तयति ।
भिक्षाकाले व्यतीते भगवत उपवासं निश्चित्य स प्रत्यागतवान् स्वगृहम् । अपरस्मिन् दिने भिक्षाकालं प्राप्य तत्र पारणार्थं भगवन्तं विज्ञपयति स्म । कार्योत्सर्गेणैव स्थितं परमात्मानं दृष्ट्वा – 'अधुना कायोत्सर्ग पारयित्वा भगवान् भिक्षार्थं मम गृहमलंकरिष्यति' इति भावयित्वा भगवतश्च प्रतिवचनमप्रतीक्षमाण एव त्वरितं स्वगृमागत्य सर्वा अपि भिक्षायोग्याः सामग्री: सज्जीकृत्य गृहस्याऽग्रद्वारि एव - "अधुनैव भगवान् भिक्षार्थं सञ्चरिष्यति । मया विज्ञप्तो भगवान्, अतोऽनेनैव मार्गेण मम गृहे आगमिष्यति । उग्रं तपश्चरन् स मम सकाशात् स्वल्पमपि
७८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130