Book Title: Nandanvan Kalpataru 2001 00 SrNo 05
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 99
________________ दुःखसन्ततिछिदुराणां कर्ममर्मभिदुराणां श्रीमतां महावीरस्वामिपरमात्मनां वन्दन - पूजनार्थं समागन्तव्यम् देशनाश्रवणार्थं - इति महाराजाधिराज - परमभट्टारक- श्री श्रेणिक बिम्बिसार आज्ञापयति ।' घोषणानन्तरमेव नृपतिरपि परिहितमहार्घ्यपट्टांशुकोऽलङ्कृतश्चोत्तमैराभरणैः सेचनकवरगन्धगजारूढो महता सैन्येन महता बलेन महताऽन्तः पुरेण महता परिजनेन महता स्वजनसन्दोहेन महताऽमात्य-सामन्तादिपरिच्छदेन महता नागर-नर-नारीसमुदयेन महता - ऽऽडम्बरेण च सह जयजयनादं कुर्वाणेषु बन्दिजनेषु झटिति गुणशीलचैत्यमुद्यानं प्राप्तः । स्वल्पदूरत एव गजस्कन्धादवरुह्य पादचारेण प्रभोर्देशनाभूमिं समवसरणं समारुह्य यावत् जिनराजमुखं ददर्श तावत् तस्य रोमकण्टका विकस्वरीभूताः आनन्दाश्रुबाष्पनिवहैरक्षिणी आर्द्रीभूते, मुखाच्च सहसा 'नमो जिणाणं' इति निःसृतम् । एतावता च द्वादशाऽपि पर्षदः समवसरणमध्ये समाविविशुः । ततः सौधर्मेन्द्रेणाऽष्टोत्तरशतस्तुतिकाव्यैर्वीरपरमात्मनां स्तवनं कृतम् । यथा 'जयति विजितान्यतेजाः सुरासुराधीशसेवितः श्रीमान् । विमलस्त्रासविरहितस्त्रिभुवनचूडामणिर्वीरः ॥ १ ॥ इत्यादि । तदनु श्रेणिकेनाऽपि नरेशेन परमात्मनां गुणोत्कीर्तनं कृतम् । यथा 'लहश-वश- नमिल-शुल- शिल- विअलिद - मन्दाल-लायिदंहि-युगे । वीलयिणे पक्खालदु मम शयलमवय्ययम्बालं ॥ १ ॥ इत्यादि । ततः सर्वेष्वपि निजनिजासनसमासीनेषु भगवद्भिर्जनमनोगतसन्देहनाशिनी दुस्तरसंसारसरस्वत्समु तारणतरीकल्पा जनितघृतमधुपानाधिकमाधुर्या क्रोधाद्यान्तररिपुमर्मवेधनी धर्मदेशना समारब्धा । यथा 'जरा जाव न पीलेति वाही जाव न वड्डति । १. मागधी भाषायां पद्यमिदम् । संस्कृतच्छायाऽस्यैवम् रभसवशनम्रसुरशिरोविगलितमन्दारराजितांह्रियुगः । वीरजिन: प्रक्षालयतु मम सकलमवद्यजम्बालम् ॥ २. किल महावीरपरमात्मभिरर्धमागधीभाषायां देशना दत्तेति पद्यमिदं तस्यामेव, स्पष्टं च । Jain Education International - ८६ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130