Book Title: Nandanvan Kalpataru 2001 00 SrNo 05
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
जाविदिया न हायंति ताव धम्मं समायरे ।। इत्यादि ।
एवं तावत् प्रवर्तमाने जिनाधीशप्रवचने साञ्जलिपुटं सबहुमानं च शृण्वतीषु पर्षत्सु कुतश्चिदेकः शटितकरचरणाङ्गलिः कुत्थितनासिकौष्ठपुटो विकृतमुखलावण्यः सर्वाङ्गैर्गलत्कुष्ठः कुष्ठिकः समागतः । स तु सर्वा अपि पर्षदः समुल्लङ्घ्य भगवत्सन्निधावुपविष्टः स्वशरीरनिःसृतपूत्या च भगवतां चरणयोर्विलेपनं कर्तुमारेभे । अनेन जुगुप्साप्रेरकप्रसङ्गेन सर्वेऽपि स्तब्धा इवाऽऽकुलीभूतचित्तवृत्तयस्तमेव निनिमेषदृष्ट्याऽवलोकितवन्तः । श्रेणिकराजोऽपि रोषाविष्टमानसश्चिन्तयामास - 'अहो ! क एष दुराचारो गलत्कुष्ठकुत्थिततनुनिःसृष्टेन पूतिगन्धेन सर्वा अपि पर्षदो व्यथयन् भुवनैकबान्धवानां तीर्थकराणां एवमाशातनां विराधनां च कुरुते? अथवा करोतु किमपि तावत्, उत्थितायां पुन: धर्मदेशनायां मयाऽवश्यं निग्रहीतव्योऽयमिति ।' ।
अथैवंविधैर्विकल्पशतैः समाकुलमानसो यावत् तिष्ठति तावत् तेन सहसा क्षुतम् । तस्य क्षुतं श्रुत्वा कुष्ठिनोच्चैर्भणितं - 'भोः श्रेणिक ! त्वं चिराय जीव' इति । मुहूर्तान्तरं तु श्रेणिकस्य पुत्रेण महामात्यभूतेनाऽभयकुमारेण क्षुतम् । इदानीमपि कुष्ठिना भणितं - 'अभयकुमार ! त्वं जीव वा म्रियस्व वा' इति । - अथ क्षणान्तरेण तत्र स्थितेन कालसौकरिकनामसौनिकेन क्षुतम् । कुष्ठिना पुनर्भणितं - 'भोः कालसौकरिक ! त्वं मा जीव मा म्रियस्व' । समतिक्रान्तेषु च कतिचित् क्षणेषु जगद्गुरुभिरपि क्षुतम् । अनेन पुनरेकदोच्चैः कथितं 'भगवन्तः ! मियध्वम्' इति ।
एतच्छ्रुत्वाऽत्यन्तं जिननाथचरणभक्ततया विजृम्भितप्रबलकोपानलेन राज्ञा निजाङ्गरक्षा समादिष्टाः – 'अरे ! एनं दुराचारं प्रभुप्रत्यनीकं समाप्तायां धर्मदेशनायां निगडबन्धं बद्धवा मदन्तिके आनयथ येन दर्शयामि तस्य दुर्विनयफलमिति ।'
अङ्गरक्षैस्तदङ्गीकृतम्।
अथ समाप्तायां प्रहरमितायां देशनायां स्वस्थानं प्रतिष्ठत्सु च सुरनरतिर्यक्समुदायेषु सोऽपि कुष्ठी जगतो गुरून् परमादरेण प्रणम्य गन्तुकामः प्रस्थितः । ते च राजपुरुषा नृपादेशमनुसरन्तस्तं ग्रहीतुमुधुक्ता बभूवुः । यावत् ते तत्समीपं प्राप्तास्तावत् ‘एष स कुष्ठी गच्छती'ति वदतामेव
८७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130