Book Title: Nandanvan Kalpataru 2001 00 SrNo 05
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 76
________________ पृष्ठतः प्रभाकरोऽस्तमेति स्म । एतावन्मध्ये सघनवृक्षस्यैकस्याऽधस्तात् करुणाकरो महावीरः स्थित एव ध्यानमग्नो भवति । अल्पकालानन्तरमकस्मादेको गोचरक आयाति कथयति च - "किंचित्कालाय मम वृषभाणामवधानं करणीयं भवद्भिः । अहं गच्छाम्यागच्छामि च । ममेषन्मानं कार्यं वर्तते ।" ____ करुणाकरस्तु चिन्तनस्य गाभीर्येषु लीनोऽवर्तत । तेन न बलीवर्दाः दृष्टाः न चैव गोपालकस्य कश्चनाभिप्रायः श्रुतः । यवसं खादन्तो भक्षयन्तस्तस्य ककुमन्तो दूरं निर्गच्छन्ति बाह्यतश्च कृष्णा शर्वरी संनिपतति । पशुचारक आगत्याद्राक्षीद्यत् सर्वे वृषाः लुप्ताः सन्ति । असावाकुलीभवति । वृषभानाकारयति । तानन्वेष्टुं प्रवर्तते । निश्चन्द्रा रजनी । प्रस्तराः, कण्टकानि, शार्दूलानां व्याघ्राणां च भीतिः । गोरक्षको गृहं प्रत्यागच्छत् । प्रातःकाले पुनरागमनस्याभिप्रायं मनसि संधार्य तेन सा निशा वामपार्श्वतो दक्षिणपार्श्वतो वा शयनं कुर्वता यापिता । यदा पूर्वस्यां दिशि लौहित्यं प्रसरति, तदाऽसौ विपिनं प्रतिष्ठति । अरण्यस्य भयावहानां स्थितीनां विषये विचित्त्य विचिन्त्य तस्य चेतो वित्रस्यति । परं महाश्रमणः पूर्ववद्ध्यानमग्नस्तादृश एव स्थितो मिलितस्तस्य च बलीवर्दाः महाश्रमणस्य पादयोरुपविष्टाः पुनश्चर्वणं विहिताः प्राप्ताः । गोचारकः क्रुध्यति, तस्य नेत्रे लोहिते भवतः । तस्य तनुमनसी दग्धुं प्रवर्तेते । असौ चिन्तयति -- ___ 'अयं न महात्मा, ध्रुवमेव कोऽपि कितवः । यद्यहं सत्वरं नागमिष्यं तद्देष मम वृषान् पलायितानकरिष्यत् । अयं यावद् दुःखं मह्यं सर्वनक्तं दत्तवानस्ति, सम्प्रति तं प्रत्यपकरोमि । परं तस्मिन्नेव काले महाश्रमणस्य दर्शनार्थं महाराजो नन्दीवर्धनः ससैन्य आव्रजति । पशुपालको बिभेति । पादयोश्च पतित्वा क्षमा याचते । महाश्रमणस्तं क्षम्यं विदधाति । नन्दीवर्धनो व्याहरति - "मुनिवर ! को भवते दुःखं दत्तवानस्ति ? वदतु भवान् । वने वने विचरणम्, एकाक्येकलो दुःखसहनं, किञ्चिन्न कथनम्-एतत्सर्वं नोचितम् । निशीथिनीषु ध्यानवास्थितिः , शीतलैः पवनैः साकं विग्रहणं, नग्नदेहो, मेघागमतितिक्षा । समुचितं जानीयाच्चेद् भवांस्तर्हि केचन Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130