Book Title: Nandanvan Kalpataru 2001 00 SrNo 05
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 83
________________ - प्रसड़ाः प्रसिद्धा कथा अप्रसिद्धा घटना (१) चन्दना मुनिरत्नकीर्तिविजयः। कौशाम्बी नाम नगरी आसीत् । तां पराक्रमी शतानीको नाम राजा शास्ति स्म । तस्य भार्या मृगावती आसीत् । सा च चेटक महाराजस्य दुहिताऽधिगतधर्म परमार्था तीर्थकरचरणसेवनरक्ता आसीत् । राज्ञः कार्येषु निपुणः कुशलबुद्धिः सुगुप्तो नामाऽमात्यः आसीत् । तस्याऽपि जिनधर्मानुरागिणी नन्दाभिधाना पत्नी आसीत् । तस्यामेव च नगर्यां धनावहो नाम श्रेष्ठी स्वकीयया मूलानामभार्यया सह निवसति स्म । ___अथ ग्रामानुग्रामं विहरन् श्रमणो भगवान् महावीर एकदा कौशाम्बीनगरीमागतवान् । तत्र च पोषबहुलप्रतिपदि दिने तेन भगवता दुष्कर एकोऽभिग्रहो गृहीतः । तद्यथा - "यदि लोहनिगडनिबद्धचरणा, अपनीतशिरोरुहा, शोक भरावरुद्धकण्ठगद्गद्गिरं रुदती, राजकन्याकाऽपि भूत्वा परगृहे वासं प्रपन्ना, त्रीणि दिनानि अनशिता, गृहाभ्यन्तरनिक्षिप्तैकचरणा, द्वितीयचरणलङ्घितगृहद्वारदेशा काऽपि कन्या प्रतिनिवृत्तेषु सकलभिक्षाचरेषु शूर्पण कुल्माषान् दद्यात् ततः परमहं पारयामि'' इति । एवं गृहीताभिग्रहो भगवान् नित्यं यथाकालं भिक्षार्थमुच्चनीचादिकुलेषु परिभ्रमति किन्तु न किञ्चिदपि लभते । पौरा अपि भगवन्तं किमप्यगृहीत्वैव गृहाङ्गणात् प्रतिनिवर्तमानं दृष्टा ग्लानिमनुभवन्ति स्म । किन्तु किंकर्तव्यमूढा इव ते न किमपि कर्तुं शक्ता भवन्ति स्म । ___ एवमेव व्यतीतं मासचतुष्टयम् । अथ अभिग्रहानुरूपाहारानुपलब्धावपि अदीनमनाः भगवान् एकदा सुगुप्तमन्त्रिण आवासे भिक्षार्थमागतः । भगवन्तमुपलक्ष्य तस्य भार्याऽतीवप्रसन्नवदना जाता । धावन्ती इव भगवतः सम्मुखमागत्य भिक्षादिसामग्री च सज्जीकृत्य सा भगवन्तं निमन्त्रितवती । किन्तु ततोऽपि निराहार एव निर्गतो भगवान् । यथागतं निवृत्तं भगवन्तं ७० Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130