Book Title: Nandanvan Kalpataru 2001 00 SrNo 05
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 81
________________ युष्माभिः सर्वैः मम दुश्चरितं सर्वत्रोद्घोषणीयम्, भवगतो महावीरस्य च तीर्थकरत्वादिगुणानामुत्कीर्तनं च कर्तव्यम् ।। __कथमस्माभिः स्वेष्टगुरोरेवमपमानादिकं सर्वजनसाक्षिकं क्रियते, तदाज्ञापालनलोपोऽपि कर्तुमनुचितः । ततः गेहाभ्यन्तरे एव नगरादिकल्पनां कृत्वा तदाज्ञामुच्चैरुद्घोष्य पश्चात् महता महेन तस्याऽग्निसंस्कारः कृतः । प्रभोर्वीरस्य च तया लोहखण्डवर्चपीडा समभवत्, शरीरकाय॑ च सञ्जातम् । सर्वे जनाः एवं कथयन्त आसन् यत् गोशालवचनं कदाचित् सफलमपि भवेत् । सिंहश्रमणविलापः, प्रभोः वात्सल्यं च । भगवदुपरि अत्युत्कटां भक्तिं दधानः सिंहानगारः सततं चिन्ताचान्तचेताः सञ्जातः । अन्ये साधुसाध्व्यः निखिला पर्षदपि भृशमुद्विग्नमानसाः समभवन् । नहि कस्मै किमपि रोचते । अत्रान्तरे भगवान् श्रावस्तीतः विहृत्य मिण्ढिकग्रामस्य बाह्योद्याने समवासरत् ।। वीरपरमात्मानमेव निजात्मनोऽप्यधिकतरं मन्यमानः सिंहानगारः भाव्यनर्थकल्पनाकदर्थितः क्षणमात्रमपि निर्वृतिमलभमानः ग्रामस्य बहिः अटव्यां क्वचननिर्जनप्रदेशे वृक्षाधस्तात् स्थितः रोरुदिति स्म । तस्यैवं रोदनध्वनिमाकर्ण्य न हि मानवपशुपक्षिण एवाऽपि तु समीपवर्तिवृक्षवनलतादयोऽपि निरुत्साहा निरानन्दा दुःखोद्विग्नाश्च समजायन्त । चुक्कस्खलित इव कोऽपि पथिकः तेन वर्त्मना गच्छन् दृष्टाऽनवरतं रुदन्तं सिंहमुनि परमां ग्लानिमुपागतः । ग्रामाभ्यन्तरे आगत्य कमपि धर्मात्मानमुपलक्ष्याऽकथयत् - रे भ्रातः ! ग्रामबहिर्भागे एको मुनिः अविश्रान्ततया रोदिति विलपति च, नाऽहं तदुःखवर्णनं कर्तुं शक्तः, इतः कोऽपि तत्र गच्छतु तं सान्त्वयतु च । किं भवतां मध्ये कोऽप्येतत् न हि जानाति । भगवान् महावीरश्च तज्ज्ञात्वा सिंहमुनेराह्वानाय मुनीन् प्रेषयति । मुनयः ग्रामबहिर्भागे गत्वा सिंहसाधुं कथयन्ति - 'रे! शब्दयति त्वां वीरः । सत्वरमागच्छ ।' 'किं मन्दभाग्यस्तत्राऽऽगत्य करोमि ? षण्मासाम्यन्तरे एव अस्माकं मध्यात् प्रभुः परलोकं प्राप्स्यति ।' ततः कथं कथमपि मनोऽधृति विमुच्य सिंहः भगवत्समीपे समागच्छत् । वात्सल्यामृतमहोदधिः भगवान् सुधामधुरया वाचा तं समाश्वासयत् । प्रभोः भवजलधिपोतायमानं ६८ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130