Book Title: Nandanvan Kalpataru 2001 00 SrNo 05
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 88
________________ दृग्गोचरोऽभवत् । सा दृष्टवती यद् भगवान् तत्स्थानं प्रति एव आगच्छति । अतोऽप्रतिमरूपं भगवन्तं दृष्ट्वाऽत्यन्तमसारं कुल्माषभोजनं च निरीक्ष्य शोकभरावरुद्धकण्ठा सा गलदश्रुप्रवाहनयना सञ्जाता । तावद् भगवानपि तत्र समागतः । साश्रुलोचना सा उक्तवती - 'भगवन् ! यद्यपि अनुचितमेतद् तथाऽपि मम मन्दभाग्याया अनुग्रहार्थं गृह्णातु एतत् कुल्माषभोजनम्।' भगवताऽपि समग्राभिग्रहविशुद्धिं दृष्ट्वा प्रसारितं पाणिपात्रम् । तयाऽप्येकं चरणं गृहद्वारस्य बहिःप्रदेशेऽपरं च चरणं गृहस्याऽन्तः प्रदेशे संस्थाप्य शूर्पण कुल्माषाः प्रदत्ताः । अथ च जगद्गुरोरभिग्रहपूरणेन परितुष्टैः देवैः पञ्च दिव्यानि प्रकटीकृतानि । चन्दनाया लोहनिगडानि देवताप्रभावेण सुवर्णनूपुरत्वेन परिवर्तितानि । मस्तकोपरि कुन्तलकलापोऽपि पूर्ववत् सञ्जातः । अनेकाभरणैश्चाऽलङ्कतं सञ्जातं तस्याः शरीरम् । एवंविधे महोत्सवस्वरूपे वातावरणे सञ्जाते पुरजनाः सपरिकरश्च गजस्कन्धाधिरूढो नृपतिः शतानीकस्तत्राऽऽगतः । सुगुप्तोऽमात्योऽपि स्वभार्यया सह तत्रोपस्थितोऽभूत् । __ अत्रान्तरे शतानीकराज्ञा पूर्वं बद्ध्वाऽऽनीतो दधिवाहननृपतेः सम्पुलो नाम कञ्चुकी तत्क्षणं वसुमतीं दृष्ट्वा जातप्रत्यभिज्ञः तस्याः पादयोः पतित्वा रोदितुं लग्नः । तस्य तादृशं वर्तनं दृष्ट्वा राजाऽपृच्छत् - 'किमर्थं त्वं रोदिषि ?' तेन कथितम् - 'देव ! दधिवाहनराज्ञोऽग्रमहिष्या धारिणीदेव्या एषा पुत्री अस्ति । नृपतिकुलसम्भूताऽप्येषा अधुना निजजननीजनकरहिता परगृहे वसति । एतेन कारणेनाऽहं रोदिमि।' राजा यावत् तं सान्त्वयति तावत् मृगावती उक्तवती - 'यद्येषा धारिणीदुहिता तर्हि मे भगिन्या दुहिता भवति' इति । ____ अत्र प्रस्ताव स्वामिभावेन स्वं अधिकारिणं मन्वानः शतानीकः सार्धद्वादशकोटीसुवर्णवृष्टिं ग्रहीतुमारब्धः । किन्तु पुरन्दरस्तमुक्तवान् - 'भोः ! महाराजः नाऽत्र कोऽपि स्वामिकौटुम्बिकभावः, किन्तु यस्मै कस्मैचिदप्येषा कन्या स्वहस्तेनेदं द्रव्यं दास्यति तस्यैवैतद् भविष्यति' इति । एवमुक्त्वा पृष्टा च चन्दना - पुत्रि ! 'कस्मै एतद् देयम् ?' सा व्याजहार Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130