Book Title: Nandanvan Kalpataru 2001 00 SrNo 05
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
तस्याऽप्येवमेव दण्डयिष्यामि' इत्येवं परिजनान् कथयित्वा सा स्वगृहं गतवती ।
-
सन्ध्याकाले श्रेष्ठी समागतः । चन्दनां चाऽनुपस्थितां दृष्ट्वा स परिजनानपृच्छत् – 'क्व गता चन्दना ?' इति । किन्तु मूलाया भयेन न कोऽपि सत्यकथने प्रभवति । श्रेष्ठ 'प्रासादतले क्रीडन्ती भविष्यति' इति समाधानं कृतम् । अथ रात्रौ पृष्टे सत्यपि प्रत्युत्तरं न प्राप्तवान् सः । द्वितीयदिनेऽपि न दृष्टा चन्दना तेन । अतोऽत्यन्तं व्याकुलः स सञ्जातः । तृतीयस्मिन् दिने समुत्पन्नगाढकोपः स सर्वेभ्य उक्तवान्- 'अरे ! कथयतु मे चन्दनायाः प्रवृत्तिम् । क्व सा गता ? किं भूतं तस्याः ? यदि न कथयिष्यथ तर्हि मम हस्तेनैवाऽहं सर्वान् दण्डयिष्यामि' इति ।
एवं व्याकुलं श्रेष्ठिनं दृष्ट्वा एकया स्थविरया दास्या चिन्तितं यद् - 'अहं तु जरातुरा प्रत्यासन्नमरणा च । किं कर्तुमीशिष्यति मे सा मूला ? अतोऽहमेव सर्वं व्यतिकरं कथयेयम् ।' एवं च विचिन्त्य सर्वं यथाघटितं श्रेष्ठिने निवेदितवती सा वृद्धा । दर्शितं च तद्गृहं यत्र साऽवरुद्धाऽऽसीत् ।
---
श्रेष्ठिनाऽपि झटिति तद्गृहद्वारमुद्घाटितम् । कर्तितकेशां, निगडबद्धचरणां, क्षुधापिपासादिभिः क्लान्तदेहां म्लानमुखीं च चन्दनां दृष्ट्वा गलद्वाष्पलोचन: श्रेष्ठी - 'पुत्रि ! अहमागतोऽस्मि । विश्वस्ता भव' इति तां समाश्वास्य भोजनसामग्य्रर्थं महानसं गतवान् । किन्तु नाऽऽसीत् काऽपि भोजनसामग्री तत्र, केवलं कुल्माषा एव तत्र विद्यमाना आसन् । अतस्तानेव शूर्पकोणे गृहीत्वा चन्दनायै दत्तवान् । कथितं च- 'यावत्तव निगडभञ्जनार्थं लोहकारमहमानयेयम् तावद् भुङ्क्ष्व एतान् कुल्माषान् ।' एवमुक्त्वा श्रेष्ठी ततो निर्गतः ।
अथ चन्दनाऽपि शूर्पसहितान् कुल्माषान् हस्ते गृहीत्वा स्वकुलं चिन्तयितुं लग्ना । चिन्तनमध्ये एव तस्या: समुत्पन्नो विकल्प: यद - 'यदि आगच्छेत् कोऽप्यतिथिः तर्हि तस्मै दत्वा एव भोजनं कर्तुमुचितम्' इति । एवं च परिभावयन्ती सा गृहस्य द्वारदेशमागत्य बहिः प्रलोकयन्ती स्थिता ।
तदैव च श्रमणो भगवान् महावीरो विहरन् सन् तत्राऽऽगतवान् । स च तस्या
Jain Education International
७४
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130