Book Title: Nandanvan Kalpataru 2001 00 SrNo 05
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
(३४) अव्युच्छित्तिः
विवक्षितस्य वस्तुतत्त्वस्य यावत्कालं सम्पूर्णतया सिद्धिर्न भवेत् तावद् विविधैः प्रमाणैस्तदखण्डित
वाक्प्रवाहेण साधयदर्हतां वाक्यरचनं भवति । (३५) अखेदित्वम्
वचनविन्यासावसरे कथयितुः स्वल्पोऽपि खेदः श्रम आयासो वा यत्र न भवेत् तादृश्येव भवति
जिनपुरन्दाराणां प्रवचनशैली ।। यद्यप्येतेभ्योऽन्यतमाः सर्वेऽपि वैते गुणा गणधराणां श्रुतकेवलिनामितरेषामपि च प्रवचनप्रभावकाणां महापुरुषाणां देशनायां संवेविद्यन्ते तथाऽपि परमपुण्यप्रकर्षशालिनां निष्कारणवत्सलानां जिनपुरन्दराणां निःश्रेयसनिःश्रेणिकल्पायां देशनायां त्वेते गुणाः परां काष्ठां प्राप्नुवन्तीति ।
एवंविधैरुदारैरुदात्तैश्च गुणश्रेष्ठैः समलङ्कृता श्रीमतां जिनेश्वराणां वाणी निःशेषमपि जगत् पवित्रयतु।
कषायतापार्दितजन्तुनिर्वृतिः करोति यो जैनमुखाम्बुदोदगतः ।
स शुक्रमासोद्भववृष्टिसन्निभो
दधातु तुष्टिं मयि विस्तरो गिराम् ॥ (सन्दर्भग्रन्थः गूर्जरभाषायां-मुनिश्रीतत्त्वानन्दविजयलिखितो 'देवाधिदेव-भगवान् महावीर' इति ।)
विषमस्थलटिप्पणी प्रसरीसति
अभीक्ष्णं प्रसरति । स्थावराः
पृथ्वी-जल-वह्नि-वायु-वनस्पतिजीवाः । घातिकर्मचतुष्टयं
जीवस्य ज्ञान-दर्शन-चारित्र-वीर्यगुणान् घातयन्ति-आवारयन्तीति घातिकर्माणि, तानि
चत्वारि - ज्ञानावरणीयं दर्शनावरणीयं मोहनीयं अन्तरायं च । समूलकाषं कषित्वा
मूलतो विनाश्य । देशना
प्रवचनम्। प्रवरीवृत्यन्ते
पुनः पुनः प्रवर्तन्ते ।
६०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130